________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 191 राजा-- इदमनन्यपरायणमन्यथा हृदयसंनिहिते ! हृदयं मम / यदि समर्थयसे, मदिरेक्षणे ! मदनबाणहतोऽपि हतः पुनः // 22 // अनसूया-बहुवल्लहा क्खु राआणो सुणीअन्ति / ता जधा इअं णो पिअसही बन्धुअणसोअणीआ ण होदि तथा करिस्सदि / [बहुवल्लभाः खलु राजानः श्रूयन्ते, तद्यथा इयं नः प्रियसखी इदमिति / हृदय-सन्निहिते ! = हे हृदयेश्वरि.!। मदिरे ईक्षणे यस्याः सा तत्सम्बुद्धौ-मदिरेक्षणे ! = हे चञ्चललोचने ! 'आघूर्णमानमध्या या, क्षामा चाऽञ्चिततारका। दृष्टिविकासिताऽपाङ्गा मदिरा तरुणे मदे' इति भरतः / इदं = प्रकटिताशयम् / न अन्यत्-परमयन यस्य तत्-अनन्यपरायणं = त्वदधीनं, त्वदेकप्रणयप्रवणं / मे = मम / हृदयं = चित्तं / यदि-अन्यथा = अन्यपरायणमिति / समर्थयसे = निश्चिनुषे तर्हि / मदनस्य बाणैरेव हतोऽपि = स्मरशरार्दितोऽपि, अहं-पुनः = पुनरपि-इतोप्यधिकं / हतः = विपन्नः / ममहृदयेश्वरी यद्यन्यथाऽ. स्मान् शङ्कते-का नु गतिरस्माकमिति महदिदं नो दौर्भाग्यमित्याशयः / [ 'मदिरेक्षण'पदे उपमा / लाटानुप्रासः / परिकरश्च, 'हृदयवासिनी'त्यादेः साभिप्रायविशेषणघटितत्वात् / 'साम'नामकं प्रतिमुखसन्ध्यङ्गम् / 'तत्र साम प्रियं वाक्यं सानुवृत्तिप्रकाशक'मिति भरतोक्तेः / द्रुतविलम्बितं च वृत्तम् ] // 22 // ____ बह्वयो वल्लभा येषां ते = बहुवल्लभाः = अनेकपरिग्रहाः। तत् = तस्मात् / राजा-हे हृदयस्थल निवासिनी प्रिये ! यदि मेरे अनन्य परायण (केवल तुम्हारे में ही अनुरक्त) इस हृदय को तुम इस प्रकार सन्देह की दृष्टि से देखोगी, ( अन्यासक्त समझोगी), तो हे उन्मत्त कर देनेवाले तीखे नयनोंवाली. प्रिये ! मैं तो मदन के बाणों से घायल तो पहिले से ही हूँ, पर अब तुम्हारे इस प्रकार सन्देह करने से तो मैं सचमुच ही मारा जाऊँगा // 22 // __ अनसूया-'राजा लोग अनेक रमणियों से प्रेम किया करते हैं' ऐसा सुना