________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् . नटी-तह [ तथा ] ( --इति गायति ) / ईसीसि चुम्बिआई भमरेहिं ( उअ२ ) सुउमारकेसरसिहाई। ओदंसयन्ति * दअमाणा पमदाओ सिरीसकुसुमाई // 4 // [ईषदीषच्चुम्बितानि भ्रमरैः (पश्य) सुकुमारकेसरशिखानि। / अवतंसयन्ति दयमानाः प्रमदाः शिरीषकुसुमानि // 4 // पाटलप्रसूनपरिमलसुरभिकाननमारुताः, प्रकृष्टा च्छाया येषु ते-प्रच्छायाः-तेषु सुलभा निद्रा येषु ते-प्रच्छायसुलभनिद्राः = निकुञ्जादिप्रदेशसुलभस्वापाः। परिणामे रमणीयाः-परिणामरमणीयाः = अवसानमनोहराः / अपराह्लादिसमयसुखदाः / दिवसाः = वासराः-सन्तीत्यर्थः / एतेन-ग्रीष्मसमयस्योपभोगक्षमत्वं सूचितम् / अत्र च परिकराऽलङ्कारः, स्वभावोक्तिश्च // 3 // तथेति / यथाज्ञापयत्यार्यस्तथाऽनुतिष्ठामि / इति = इत्यभिधाय / ईषदीपदिति / सुकुमारकेसरशिख़ानि, ईषदीषत् भ्रमरैः चुम्बितानि, शिरीषकुसुमानि, दयमानाः = सप्रणयाः प्रमदा अवतंसयन्तीति पश्येत्यन्वयः। सुकुमाराः केसराणां शिखा येषान्तानि-सुकुमारकेसरशिखानि = मृदुकिञ्जल्ककलितानि, अत एव भ्रमरैः = रोलम्बैः, ईषदीषत् = मुहुर्मुहुः, अल्पमल्पं, चुम्बितानि = परामृष्टानि, [आस्वादितानि]। 'भ्रमरैर्मुहुरनुगम्यमानानी ति यावत् / शिरीषाणां कुसुमानि,-शिरीषकुसुमानि = शिरीषपुष्पाणि, दयमानाः = 'कुसुमकिञ्जल्कभङ्गो मा भूदिति दत्तावधानाः, अतएव कृपापराः। प्रमदाः = आता है, और उद्यान, उपवन, एवं वनों में गुलाब की सुगन्धि से सुरभित पवन बहता रहता है, और दोपहर में कुञ्जों की शीतल ( ठण्डी 2 ) छाया में सोने में भी इन दिनों बड़ा ही आनन्द आता है // 3 // नटी-ठीक है, जो आज्ञा / ( गाती है-) देखो-भ्रमर जिनपर गुञ्जान करते हुए मँडरा रहे हैं, और धीरे 2 जिनका रसपान कर रहे हैं, और जिनके केसर ( पतली पखुड़ियाँ) और अग्रभाग बड़े ही सुकुमार है, 1 'ईषच्चुम्बितानि' / 'क्षणं चुम्बितानि'। 2 काचित्कः पाठः / 3 'सुकुमारतर।