________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् .. ...[तेन हि आत्मन उपन्यासानुरूपां चिन्तय ललितपदावलिबन्धां गीतिकाम् / शकुन्तला-चिन्तेमि ! किन्तु अवधारणाभोरुअं वेवदि मे हिअ / [चिन्तयामि, किन्तु अवधीरणाभोरुकं वेपते मे हृदयम् ] / राजा-(विहस्य -) अयं स ते तिष्ठति सङ्गमोत्सुको, विशङ्कसे भीरु ! यतोऽवधीरणाम् / / लभेत वा प्रार्थयिता, न वा श्रियं, श्रिया दुरापः कथमीप्सितो भवेत् 1 // 16 // तेन = यद्यनुमतन्तवापि पत्रलेखन तर्हि, उपन्यासानुरूपाम् = स्वाभिप्रायप्रकाशिकां / ललितः पदावलीनां बन्धो यस्यां सा, तां-ललितपदावलिबन्धः = कोमलप्रसन्नपदकदम्बगुम्फितां / मीति कां = छन्दोभेदम् / 'आयोपूर्वाद्धसमं द्वितीयमपि यत्र भवति हंसगते ! / छन्दोविदस्तदानीं गोति ताममृतवाणि भाषन्ते / ' इत्युक्तलक्षणां / चिन्तय = विरचय / अवधीरणाभीरुकम् = अवज्ञा भीतं / वेपते = कम्पते। _ विहस्येति / वृथाऽऽशङ्कमानां शकुन्तलां दृष्ट्वा राज्ञो हासः / अयमिति / भीरु ! = हे वृथाभीतितरले ! / यतः = मत्तः। दुष्यन्तात् / अवधीरणाम् = अवहेलनम् / विशङ्कसे = आशङ्कसे / सोऽयं = दुष्यन्तः। ते = तव / सङ्गमे उत्सुक:-सङ्गमोत्सुकः = सङ्गमोत्कण्ठाकुलः। तिष्ठति = त्वदाज्ञामवसरं च प्रतीक्षमाणस्तिष्ठति / प्राथयिता = याचकः / लक्ष्मीसमुत्सुकः / श्रियं = लक्ष्मी। लभेत वा = प्राप्नयाद्वा / न वा = न लभेत वा / सन्दिग्धमेतत् / परन्तु-श्रिया = ललितपदावलि से घटित, कोई अच्छी सी सरस गीतिका (छन्द, आर्या विशेष) को सोचकर बनाओ, जो उस पत्र में लिखी जाए। शकुन्तला-ऐसी गीतिका तो मैं सोच रही हूँ। परन्तु 'कहीं वे मेरी उपेक्षा व तिरस्कार न कर दें' इस भय से मेरा हृदय काँपता है। राजा-( हंसकर )-हे भीरु ! जिससे तुम तिरस्कार एवं अवधीरणा ( अस्वीकार ) की शङ्का कर रही हो, वह तो मैं तुम्हारे सङ्गम के लिए स्वयं