________________ 156 अभिज्ञानशाकुन्तलम् [तृतीयो तव कुसुमशरत्वं, शीतरश्मित्वमिन्दो द्वैयमिदमयथार्थ दृश्यते मद्विधेषु / . विसृजति हिमगभैरग्निमिन्दुमयूखै स्त्वमपि कुसुमबाणान् वज्रसारीकरोषि // 4 // स्मरचन्द्रयोगद्वञ्चकत्वमेव पुनः स्फुटयति-तवेति / मद्विधेषु = मादृशेषु दीनेषु विरहिषु / तव = कामस्य / कुसुमशरत्वं = कुसुमायुधपदवाच्यत्वम् / किञ्च-इन्दोः = चन्द्रस्य / शीता रश्मयो यस्य, तस्य भावस्तत्त्वं-शीतरश्मित्वं = शीतकिग्णनामव्यवहार्यत्वं च / द्वयमिदम् = उभयमेतत् / अयथार्थम् = असत्य, निरर्थकं च / कथमेतदत आह-विसृजतीति / यतः-इन्दुः = चन्द्रः / हिमं गर्भे येषान्तैःहिमगौंः = तुषारग|ः / मयूखैः = स्वकिरणैः। अग्निं = दहनं / दाहं / विसृजति = विकिरति / बहिश्शीतलैरपि अङ्गारैरिवान्तःसन्तापकैः किरणविरहिणो दहतीत्याशयः / एवं-त्वमपि = मदनोपि, कुसुमबाणोऽपि / कुसुमान्येव बाणास्तान् = पुष्पमयानपि शरान् / बहिः पुष्परूपेण प्रतीयमानानपि / अवज्रसारान् वज्रमारान् करोषि-वज्रसारीकरोषि = वज्रकठोरान् करोषि / चन्द्रो हिमाच्छादितमग्निं वर्षति, स्वञ्च कुसुमत्वेन बहिःप्रतीतानपि कुलिशकठोरान् बाणान् मुञ्चसीति स्फुट युवयोर्वञ्चकत्वमित्याशयः। 'मयी'ति विशेषे वक्तव्ये, 'मद्विधेष्विति सामान्योक्तेर प्रस्तुतप्रशंसा, पूर्वार्धार्थे उत्तरार्द्धार्थस्य हेतुत्वाच्च काव्यलिङ्ग। 'हिमगभैरग्नि'मिति विरोधेऽपि विरहि. स्वाभाव्याद्विरोधाऽऽभासः / कुसुमेषु बाणत्वमारोपितं च विरहदुःखदत्वेन प्रकृतोपयो. गीति परिणामश्च / यथासङ्ख्य-च्छेक-वृत्त्यनुप्रासा इति च राघवभट्टः] // 4 // ___ हे कामदेव ! यद्यपि आपका नाम कुसुमशर ( फूलों के कोमल बाण धारण करनेवाला ) है और चन्द्रमा का भी नाम शीतरश्मि ( ठण्ढी 2 किरण धारण करनेवाला ) है। परन्तु आपलोगों के ये दोनों ही नाम हमारे ऐसे विरहीलोगों के लिए यथार्थ ( सच्चे, अन्वर्थ) नहीं हैं। क्योंकि-चन्द्रमा तो अपनी किरणों से हिमगर्भ अग्नि ( ऊपर से दीखने में ठण्डी, पर भीतर में छिपी अग्नि) वर्षाता है और आप भी नाम के ही कुसुमबाण हो, पर वज्र से भी कठोर तीखे 2 बाण आप विरहियों पर वर्षाते हो / अतः आपके तथा चन्द्रमा के मीठे 2 नामों को सुनकर विश्वास में आए हुए विरही जन आप दोनों से ठमे जाते हैं, धोखा खाते हैं, और पीडित होते हैं एवं कष्ट उठाते हैं // 4 //