________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 157 अथ वा अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे / यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति // 5 // भगवन् ! एवमुपालब्धस्य ते न मां प्रत्यनुक्रोशः ? / / वृथैव सङ्कल्पशतैरजसमनङ्ग ! नीतोऽसि मयाऽतिवृद्धिम् / आकृष्य चापं श्रवणोपकण्ठे मय्येव युक्तस्तव बाणमोक्षः 1 // 6 // अथवा = यद्वा / अनिशमिति / यदि--मदिरे = मादके, आयते च नयने यस्याः सा, तां-मदिरायतनयनाम् = उन्मादकविस्तृतलोचनां / तां = शकुन्तलाम् / अधिकृत्य = तामपि विषयीकृत्य / प्रहरति = तस्या अपि उपरि कामो बाणान् क्षिपति / तदा अनिशम् = अनवरतं / मे = मम / मनसः = चित्तस्य / रुजं = पीडाम् / आवहन् = कुर्वन् / अपि / मकरः केतौ यस्यासौ-मकरकेतुः = मकरध्वजः = स्मरः / मे = मम / अभिमतः = बहुमतः / अभीष्ट एव / यदि साऽपि मदर्थे विरहपीडामनुभवति, मयि च सा सानुरागं मनो वहति, तदा काम कृतोपकारमभिमतमेव मन्ये इति भावः [ 'रुजमावहन्नभिमत' इति विरोधाऽऽ. भासः // 5 // उपालब्धस्य = दत्तोपालम्भस्य / अनुक्रोशः = कारुण्यम् / वृथैवेति / हे अनङ्ग ! अजस्रम् = अनवरतम् / सङ्कल्पानां शतैः-सङ्कल्पशतैः = मनोग्यकोटिभिः / वृथैव = मुधैव / मया = दुष्यन्तेन / अतितमा वृद्धि अथवा-निरन्तर मेरे मन को सन्तप्तं करनेवाला भी मकरकेतु (कामदेव) मुझे अभिमत ( इष्ट, प्रिय ) हो सकता है, यदि यह मदिर (= उन्मत्त कर देने वाले) और आयत = विस्तृत नेत्रोंवाली उस मेरी प्रिया पर भी इसी प्रकार अपने बाणों का प्रहार करे तो। अर्थात् मेरी-प्रिया शकुन्तला भी यदि मेरे कारण मेरी ही तरह विरह सन्ताप को धारण करे, तो मुझे यह उपकारी कामदेव अवश्य प्यारा लगेगा // 5 // हे कामदेव ! आपको इतना उपालम्भ ( उलाहना ) देने पर भी मेरे ऊपर आपको दया नहीं आती है ! / हे अनङ्ग ! आपको मैंने प्रिया विषयक नाना प्रकार के सङ्कल्पों से वृथा ही इतना बढ़ाया। (कामदेव अनङ्ग = अङ्ग रहित है, वह केवल सङ्कल्प = इच्छा