________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 155 अद्यापि नूनं हरकोपवह्नि-. स्त्वयि ज्वलत्यौर्व इवाऽम्बुराशौ / त्वमन्यथा मन्मथ ! मद्विधानां भस्मावशेषः कथमेवमुष्णः 1 // 3 // अपि च त्वया, चन्द्रमसा चाऽतिविश्वसनीयाभ्यामतिसन्धीयते कामिसार्थः / कुतः अद्यापीति / मन्मथ ! = हे मदन ! / अम्बुराशौ = समुद्रे / और्व इव = वडवानल इव / नूनं = निश्चितं / त्वयि = मदने / अद्यापि = बहुतिथे काले गतेऽपि / हरस्य कोप एव वह्निः-हरकोपवह्निः = रुद्रलोचनानलः / ज्वलति = दीप्यते / अन्यथा = नो चेत् / भस्मावशेषः = भस्ममात्रावशिष्टः। त्वं = मदनः। मद्विधानां = मादृशानां दीनानां कामातुराणां विरहिणाम् / एवमुष्णः = ईदृक् सन्तापकः / कथम् ? / एवञ्च कालाग्निवन्मदनो मां दहतीत्युक्तम् / [ 'नून'मित्युक्तेरुत्प्रेक्षा / पूर्वार्द्धार्थ प्रत्युत्तराद्धार्थस्य * हेतुत्वाकाव्यलिङ्गं / 'हरकोपवह्नि'रिति च रूपकं / 'ममे'त्यनुक्त्वा 'मद्विधे'त्युक्तेरप्रस्तुत प्रशंसा च ] // 3 // त्वया = कुसुमायुधनामधेयेन / चन्द्रमसा = आह्लादकार्थकचन्द्रपदाभिधेयेन च / अतिविश्वसनीयाभ्याम् = उक्तनाम्नोरन्वर्थत्वभ्रमेण सम्पादितलोकविश्वासाभ्यां / कामिनां सार्थः-कामिसार्थः = विरहिलोकः / अतिसन्धीयते = वञ्च्यते / जातविश्वास लोकं पीडयन्तौ नूनं वञ्चकावेव भवन्तावित्याशयः / बहिरीदृशं नामधेयम्, अन्तस्तु महती करतेत्यहो! वञ्चनाचातुरी मदनचन्द्रयोर्भवतोरिति च हृदयम् / ['मुख में राम, बगल में छुरी' ] | ठीक है. आपके भीतर तो अभी तक भगवान् शङ्कर की क्रोधरूपी अग्नि वैसे ही जल रही है, जैसे समुद्र के भीतर वड़वानल ( = ज्वालामुखी) जला करता है / अन्यथा हे मन्मथ ! शिवजी के तीसरे नेत्र से जलकर भस्म होकर भी आप हमारे ऐसे विरहियों के लिए आग की तरह से सन्तापप्रद-कष्टदायक कैसे हो सकते हो ? / अतः अभी तक आपके भस्मावशेष शरीर के भीतर भीशिवकोपवह्नि अवश्य धधक रही है. तभी तो आप हम विरहियों को इतना सन्ताप देकर जला रहे हो। [ कामदेव को शिवजी ने अपने तीसरे नेत्र की अग्नि से भस्म कर दिया था, क्योंकि वह शिवजी की समाधि भङ्ग करने का उद्योग कर रहा था] // 3 //