________________ 12 अभिज्ञानशाकुन्तलम् - [प्रथमो नटी-सुबिहिदप्पओअदाए अजस्स ण किं वि परिहाइस्सदि / [सुविहितप्रयोगतयाऽऽयस्य न किमपि परिहास्यते / सूत्रधारः-( सस्मितम् ) आर्य ! कथयामि ते भूतार्थम् आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् / बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः // 2 // तथा / नाटकेन = रूपकभेदेन, उपस्थातव्यम् = अभिनेतव्यम् / तत् = तस्मात् , पात्रं पात्रं प्रतीति-प्रतिपात्रं = प्रतिनटम्, यत्नः = प्रत्यवेक्षणम् / आधीयतां = क्रियताम् / ____ एवंविधायाः पण्डितप्रचुरायाः परिषदो रञ्जने प्रवृत्तैरस्माभिः सर्वथाऽवहितै र्भाव्यमित्याशयः। 'पात्रं-नाट्याऽनुकर्तरी' हैमः / एतावता--नाटकस्य, कवेश्च नामादि समुपन्यस्तं वेदितव्यम् / सुविहितः प्रयोगो येन, तस्य भावस्तया-सुविहितप्रयोगतया = बहुशः कृतनाटकाभिनयतया, निपुणस्य, आर्यस्य = भवतः, परिहास्यते = त्रुटितं भविष्यति / 'परिहापयिष्यते' इति, 'परिहायिष्यते' इति च पाठे णिजन्तस्य, शुद्धस्य च कर्मणि रूपं बोध्यम् / सर्वेषां नटानां, भवतश्च नाट्याद्यभ्यासनैपुण्येन सर्व शोभनमेवेदं भवेदिति नट्याः सम्भावनमेतत् / सस्मितमिति / आत्मप्रशंसयाऽत्र स्मयः। भूतार्थम् = सत्यं / तथ्यं / 'भूतं क्ष्मादौ, पिशाचादौ, न्याय्ये, सत्योपमानयोः' इति विश्वः / कथयामि = निर्दिशामि / प्रत्येक पात्र ( नाटक के खेलनेवाले नटों) को बड़ी सावधानी से कार्य करना होगा। अर्थात् नाटक के पात्रों को पूरी तरह से तैयार होना चाहिए, कोई त्रुटि न होने पावे, क्योंकि बड़े 2 विद्वानों के सामने महाराज विक्रमादित्य की सभा में आज नाटक खेलना है। नटी-आप ( तथा आपकी मण्डली ) नाटक खेलने में अत्यन्त निपुण व सिद्धहस्त हैं, अतः पात्रों से किसी प्रकार की त्रुटि होने का भय नहीं है। सूत्रधार-(थोड़ा हंसकर) आर्य ! मैं तुमसे सच (असली) बात कहता हूँ