________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 11 ऽऽदित्यस्याभिरूपभूयिष्ठा परिषत् / अस्याञ्च खलु कालिदासग्रथितवस्तुनाऽभिज्ञानशाकुन्तलनामधेयेन नवेन नाटकेनोपस्थातव्यमस्माभिः, तत्प्रतिपात्रमाधीयतां यत्नः। -इत्युक्तस्वरूपां भारतीवृत्त्यङ्गभूतां प्रशचनामारचयति आर्य इति / आर्ये ! = श्रेष्ठ ! -- रसाश्च, भावाश्च-रसभावाः, तेषां विशेषाः-रस-भावविशेषाः, तेषां दीक्षादायको गुरुः-रस-भावविशेषदीक्षागुरुस्तस्य, -रस-भावविशेषदीक्षागुरोः = शृङ्गारादिरसदेवादिविषयकरत्यादिभाव-प्रभेदप्रवर्तकस्य / महाकवेरित्यर्थः / रस-भावविवेकश्च साहित्यदर्पणे 'विभावेनाऽनुभावेन व्यक्तः, सञ्चारिणा तथा / रसतामेति रत्यादिः स्थायीभावः सचेतसाम् / / ' इति, 'सञ्चारिणः प्रधानानि, देवादिविषया रतिः / , उद्बुद्धमात्रः स्थायी च 'भाव' इत्यभिधीयते // ' इति च / अभिरूपा भूयिष्ठा यस्यां सा-अभिरूपभूयिष्ठा = पण्डितप्रचुरा। विद्वत्सङ्घलेत्यर्थः / चेतश्चमत्कारकारिणीति वा / 'अभिरूपो बुधमनोज्ञयो रित्यमरः। परिषत् = राजसभा / एतावता सभ्यप्रशंसोपन्यस्ता / , ___ अस्याञ्च = एवं प्रसिद्धायां, विद्वत्प्रचुरायां, राजसभायाञ्च / कालिदासेन ग्रथितं वस्तु यस्मिन् , तेन-कालिदासग्रथितवस्तुना= कालिदासगुम्फित कथाभागशालिना, नवेन = प्रत्यग्ररचितेन, अभूतपूर्वेण वा, अभिज्ञानशाकुन्तलनामधेयेन = अभिज्ञानशाकुन्तलाख्येन / अभिज्ञायतेऽनेन तदभिज्ञानं, शकुन्तलामधिकृत्य कृतं शाकुन्तलम् , अभिज्ञानं च तत्-शाकुन्तलं च-अभिज्ञानशाकुन्तलम् / उपचारान्नाटकमपि स्थायी भाव, देव और गुरु आदि विषयक रति आदि) के दीक्षागुरु = प्रधानवेत्ता और मर्मज्ञ महाराज श्री विक्रमादित्य की विद्वानों से परिपूर्ण यह परिषत् (सभा) है / इस विद्वत्परिषत् के सामने आज हम लोगों को ( महाकवि ) कालिदास के बनाए हुए 'अभिज्ञान-शाकुन्तल' नामक नवीन नाटक का खेल दिखाना है। अतः . 1 'शकुन्तल'।