________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 153 . (ततः प्रविशति समदनावस्थो राजा)। राजा--( सचिन्तं, निःश्वस्य-) * जाने तपसो वीय्ये, 'सा बाला परवतीति मे विदितम् / ने च निम्नादिव सलिलं, निवर्त्तते मे ततो हृदयम् // 2 // 'अर्थोपक्षेपकाः पञ्च विष्कम्भक-प्रवेशको / चूलिकाऽङ्कावतारोऽथ स्यादङ्कमुखमित्यपि / / ' इति च / तलक्षणन्तु 'वृत्त-वतिष्यमाणानां कथांशानां निदर्शकः / संक्षिप्तार्थस्तु 'विष्कम्भ' आदावङ्कस्य दर्शितः / / ' इति / प्रकृते चाऽनेन-दुष्यन्तस्याऽऽश्रमप्राप्तिः, मुनिकार्यनिर्वहणं च भूतोऽर्थः, शकुन्तलाविरहावस्था, शीतलोपचारादिकं, गौतमीसमागमश्च भविष्यन्नर्थः सूचितइति-विष्कम्भकोऽयम् / स च मध्यमपात्रप्रयोजितत्वाच्छुद्धविष्कम्भः / तदुक्तं__ 'मध्येन, मध्यमाभ्यां वा पात्राभ्यां संप्रयोजितः। शुद्धः स्यात् , स तु संकीर्णो नीचमध्यमकल्पितः // ' हति / संस्कृतभाषिपात्रप्रयोजितः शुद्धः / संस्कृत-प्राकृतभाषिपात्रप्रयोजितस्तु सङ्कीर्ण इति तु तत्त्वम् / ततः= शिष्यनिर्गमनानन्तरं / मदनस्यावस्था-मदनावस्था, तया सहितःसमदनावस्थः = कामकृतावस्था नाटयन् / 'कामयमानावस्थ' इति क्वचित्पाठः / तत्र कामयमानः = कामी, तस्येवावस्था यस्येत्याद्यर्थः / सचिन्तं = चिन्ताव्याकुलं यथास्यात्तथा / क्रियाविशेषणमेतत् / जान इति / तपसः = भगवतः कण्वस्य तपसः। वीर्य = सामर्थ्यम् / 'वीर्य शुक्र, प्रभावे च, तेजःसामर्थ्ययोरपीति वैजयन्ती / जाने = वेद्मि / एवञ्च-बलाद्यदि शकुन्तलां हरामि, तदा नूनं कण्वशापहतो भवेयमिति ध्वनितम् / सा = शकुन्तला .. [मदनावस्थायुक्त, विरहातुर राजा का प्रवेश ] / राजा-(चिन्ता पूर्वक ऊँची सांस लेकर-) मुनियों की तपस्या का 1. 'अलमस्मि ततो हृदयं तथापि नेदं निवर्तयितु मिति पा० /