________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 151 ___ यावदेतान वैदिसंस्तरणार्थं दर्भानृत्विग्भ्य उपाहरामि / (परिक्रम्याऽवलोक्य च, आकाशे- ) प्रियंवदे! कस्येदमुशीरानुलेपनं, मृणालवन्ति च नलिनीदलानि नीयन्ते / ( श्रुतिमभिनीय-) किं कथयसि-'आतपलङ्घनाद्वलवदसुस्थशरीरा शकुन्तला, तस्याः शरीरनिर्वापणायेति ? / / 'हु'शब्देनेव, ज्यायाः शब्देन = मौर्वीध्वनिना, विघ्नान् = राक्षसादिकृतोपद्रवान् , व्यपोहति = अपसारयति / बाणस्य सन्धाने = शरसन्धाने तु, का कथा = वार्त्तव को। प्रसङ्ग एव कः ? / विघ्नानां कथैव तदा तु विलयं व्रजेदित्याशयः। एवञ्च दुष्यन्तेनाऽनायासेन सर्वे विना निरस्ताः / इष्टिश्च निर्विघ्नतया समाप्ता इति वृत्तं प्रकटितम् / [ उत्प्रेक्षालङ्कारः] // 1 // . __ शिष्यः स्वागमनप्रयोजनमाह-यावदिति / एतान् = मद्धस्तस्थान् / वेद्याः संस्तारणायेति-वेदिसंस्तरणार्थ = यज्ञवेदिसमास्तरणार्थ / कुशकण्डिकार्थमिति यावत् / ऋत्विग्भ्यः = होतृभ्यः / यावत् = प्रथमं तावदुपाहरामि = उपनयामि / उपनेष्यामि / 'यावत्पुरानिपातयो' रिति भविष्यति लट् / परिक्रम्य = किञ्चिच्चलनं नाटयित्वा / आकाश इति / रङ्गमध्ये नेपथ्यातिरिक्तं स्थानमाकाश इत्युच्यते / पात्रान्तरं विनाप्येक एवान्यानुक्तमपि स्वयमेवोहयित्वाऽऽलापं करोति तदाकाशभाषितमित्युच्यते / तदुक्तं दशरूपके 'किं ब्रवीष्येव' मित्यादि विना पात्रं ब्रवीति यत् / / श्रुत्वेवाऽनुक्तमप्येकः, तत्स्यादाकाशभाषितम् // ' इति / कस्य = कस्योपयोगाय, इदं = तव हस्तस्थम् / उशीरकल्पितमनुलेपनम्उशीरानुलेपनम् = वीरणमूलकल्पितमङ्गानुलेपनं / नलिनीदलानि = कमलिनीपत्राणि। मृणालानि सन्त्येषां, तानि मृणालवन्ति = बिससहितानि / नीयन्ते = उपकरुप्यन्ते / श्रुतिमभिनीय = श्रवणं नाटयित्वा / किं कथयसि ? = किमभिदधासि 1 / आतपेन = धर्मेण / लङ्घनात् = अतिक्रमात् / बलवत् = दृढम् / असुस्थशरीरा = हुँकार से ही-इन्होंने राक्षस आदि के समस्त विघ्नों को दूर कर दिया // 1 // ___ अच्छा. तब तक मैं वेदि के आस्तरण ( आच्छादन, संस्कार विशेष ) के लिए इन कुशाओं को ऋत्विक लोगों ( होताओं ) को जाकर देता हूँ। ( कुछ चलकर, सामने देखकर, आकाश में-अर्थात् स्वयमेव ) प्रियंवदे! यह खस का अनुलेपन ( अङ्गराग) और मृणाल ( कमलों के भीतर के सफेद तन्तु ) युक्त नलिनी = (कमलिनी = कमल की लता) के पत्ते किसके लिये ले जा रही हो / (कान में हाथ लगाकर, कुछ सुनने का सा अभिनय करता हुआ स्वयमेव-)