________________ * अथ तृतीयोङ्कः / - (ततः प्रविशति कुशानादाय यजमानशिप्यः ) / शिष्यः-(विचिन्त्य, सविस्मयम्-) अहो! महाप्रभावो राजा दुष्यन्तो, येन प्रविष्टमात्र एवाऽऽश्रमं तत्रभवति सारथिद्वितीये राजनि, निरुपप्लवानि नः कर्माणि संवृत्तानि / का कथा बाणसन्धाने, ज्याशब्देनैव दूरतः / हुङ्कारेणेव धनुषः, स हि विघ्नान् व्यपोहति ! // 1 // : * अभिनवराजलक्ष्मीः * , .. अथ कथान्तरमारभमाणो महाकविर्वस्तुसङ्घटनाय विष्कम्भकनामकमर्थोपक्षेपकमारचयति-तत इति / कुशानादाय = वनात्कुशानादाय। यजमानस्य = यज्ञकर्तुर्मुनेः। शिष्यः = छात्रः। विचिन्त्य = विचारमभिनीय / विस्मयेन सहितं यथा स्यात्तथा सविस्मयम् / उवाचेति शेषः / महान् प्रभावो यस्य स महाप्रभावः = महानुभावः। 'अनुभावः-प्रभावेऽयी'त्यमरः / येन = यतः। सारथिद्वितीये = सूतमात्रपरिजने / तत्रभवति = माननीये / राजनि = दुष्यन्ते / आश्रमं = तपोवनं / प्रविष्ट एव प्रविष्टमात्र, तस्मिन्-प्रविष्टमात्रे = समागतवति / उपप्लवान्निर्गतानिनिरुपप्लवानि = निरुत्पातानि / 'उपप्लवः सँहि केये विप्लवोत्पातयोरपीति-मदिनी / नः = अस्माकं / कर्माणि = यज्ञादिकार्याणि / संवृत्तानि = निष्पन्नानि / का कथेति / हि = यतः, सः = राजा / दूरतः = दूरादेव, धनुषः = कार्मुकस्य, हुङ्कारेणेव = भाषाटीका [ कुशाओं का भार लिए हुये यजमान (ऋषि ) के शिष्य का प्रवेश ] / शिष्य-(कुछ विचारकर, आश्चर्यपूर्वक- ) अहो ! यह राजा दुष्यन्त तो बड़ा ही प्रभावशाली है / क्योंकि-सारथि के साथ इस राजा के आश्रम में आते ही हमारे यज्ञ आदि सभी कार्य निर्विघ्न सम्पन्न हो गये ! / . - बाण के सन्धान की तो बात ही क्या है, केवल धनुष की टङ्कार रूपी