________________ 140 अभिज्ञानशाकुन्तलम् [द्वितीयोराजा-(स्मितं कृत्वा-) रैवतक ! मद्वचनादुच्यतां सारथिः; सबाणकार्मुकं रथमुपस्थापयेति। दौवारिकः-जं देवो आणबेदि / [ यदेव आज्ञापयति ] / उभौ-( सहर्षम् ) अनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि / आपन्नाऽभयसत्रेषु दीक्षिताः खलु पौरवाः // 17 // गलहस्तता / ग्रीवायां हस्तं दत्त्वेवाऽभिमत कार्ये बलाद् योजनं- ( बलान्नियोगः-) प्रकृते गलहस्तः / उपहासप्रियत्वाद्विदूषकस्येत्थमुक्तिः। मद्वचनादुच्यतां = 'महाराजदुष्यन्त इत्थमाज्ञापयतीत्युच्यताम् / बाणैः, कार्मुकेण च सहितं-सबाणकार्मुकम् = धनुर्बाणसनाथम् / उपस्थापय = आनय / उभौ = तापसौ / 'सहर्षम्' इत्यस्य 'ऊचतुरिति शेषः / अनुकारिणीति / पूर्वेषां = ययातिपुरुप्रभृतिपूर्वनृपाणाम् / अनुकारिणि = सदृशे / त्वयि = श्रीमति / इदं = मुनिवचःपालनम् / युक्तरूपम् = अनुरूपमेव / अतिशयेन युज्यते एव / खलु = निश्चयेन / आपन्नानां = विपन्नानाम् / अभयमेव = अभयदानमेव / सत्राणि = यज्ञाः / तेषु = विपन्नरक्षणयज्ञेषु / 'सत्रमाच्छादने, यज्ञे' इत्यमरः / ( सत्र = 'छेत्र' इति भाषा)। पुरोरपत्यानि पौरवाः = पुरुवंश्या नृपाः / दीक्षिताः=धृतनियमा एव / [काव्यलिङ्गं / रूपकमर्थान्तरन्यासश्च ] / // 17 // राजा-(मुसकुरा कर ) रैवतक ! जाओ, मेरी आज्ञा से सारथि को कहो,कि धनुष बाण के साथ हमारा रथ यहाँ लावे / दौवारिक-जो हुक्म महाराज का / दोनों ऋषिकुमार-(हर्ष के साथ ) हे राजन् ! पुरु आदि अपने पूर्व पुरुषों के समान ही उपकारपरायण आपके लिए तो यह-यज्ञ की रक्षार्थ सबद्ध होना-उचित ही है क्योंकि पौरवराजवंश ( दुष्यन्त का राजघराना ) तो विपत्तिग्रस्तों को अभयदान देने के यज्ञ में (सदावर्त में) सदा से ही दीक्षित (गृहीततव्रत )है // 17 //