________________ 122 अभिज्ञानशाकुन्तलम् - [द्वितीयो (उभौ-परिक्रम्योपविष्टौ)। राजा-सखे ! माधव्य ! अनाप्तचक्षुःफलोऽसि, येन त्वया द्रष्टव्यानां परं न दृष्टम् / विदूषकः-णं भवं ज्जेव मे अग्गदो वदृदि / . [ ननु भवानेव मे अग्रतो वर्त्तते / राजा-सवेः खलु कान्तमात्मानं पश्यति, अहन्तु तामेवाऽऽश्रमललामभूतां शकुन्तलामधिकृत्य ब्रवीमि / प्रकृते च मृगयागुणदोषवर्णनप्रसङ्गेन विच्छिन्नस्य प्रयोजनस्य-'अनवातफलोऽसि'-इत्यादिना पुनः प्रवर्तनाद्विन्दुरयम् / प्रयत्नलक्षणमपि भरते 'अपश्यतः फलप्राप्तिं यो व्यापारः फलं प्रति / परं चौत्सुक्यगमनं 'प्रयत्नः' स प्रकीर्तितः / / इति / यथाऽत्र'-राजा-तपस्विभिः परिज्ञातोऽस्मि' 'केनापदेशेनाश्रमे बजामः' इत्यादिः 'प्रयत्नः' / केचित्तु-द्वितीयाङ्कप्रारम्भादेव प्रतिमुखं कथयन्ति / अनाप्तेति / अनाप्तं-चक्षुषोः फलं येनासौ = अनधिगतनयनसाफल्यः / द्रष्टव्यानां = दर्शनीयवस्तूनामपि, परम् = उत्कृष्ट, शकुन्तलारूपं / भवानेवेति / त्वत्तोऽधिकस्य सुन्दरस्याऽसम्भवात्कथमुच्यते 'त्वया द्रष्टव्यानां परं न दृष्ट'मिति, भवत एव तथात्वेन मया दर्शनादिति भावः / सर्वः = सकलोऽपि लोकः / कान्तं = सुन्दरं / पश्यति = मनुते / ललामभूतां = प्रधानभूतां / भूषणीभूताम् / 'ललामं [ दोनों कुछ दूर चलकर, एक शिला खण्ड पर बैठते हैं ] / राजा-सखे माधव्य ! तुमने द्रष्टव्य पदार्थों में भी सबसे श्रेष्ठ वह वस्तु ( शकुन्तला ) नहीं देखी है, अतः तुम्हारे ये नेत्र निष्फल ही हैं। नेत्रों का फल तो उस ( शकुन्तला ) के मुख का दर्शन ही हो सकता है। विदूषक-द्रष्टव्य पदार्थों में सबसे श्रेष्ठ तो आप ही मेरे सामने बैठे हैं। अब इससे अधिक क्या देखना बाकी रह गया है ? / राजा-हे मित्र ! अपने को तो सभी लोग सुंदर समझते हैं / पर मैं तो अपनी बात नहीं कह रहा हूँ। किन्तु इस आश्रम की प्रधान अलंकाररूप उस सुन्दरी