________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 121 [कृतं भवता निर्मक्षिकं / तदस्मिन् पादपच्छाया-विरचितवितानसनाथे शिलातले उपविशंतु भवान् , यावदहमपि सुखासीनो भवामि]। राजा-गुच्छाऽग्रतः / विदूषकः-- एदु एदु भवं / [ एतु-एतु भवान् / गच्छेति यावत् / साम्प्रतम् = इदानीं, मक्षिकाणामभावो निर्मक्षिक = मक्षिकारहितम् / जनशून्यमिति यावत् / पादपानां छायासु विरचितेन वितानेन सनाथेपादपच्छायाविरचितवितानसनाथे = वृक्षच्छायाकृतोल्लोचमनोहारिणि / 'अस्त्री वितानमुल्लोचः' इत्यमरः / 'चन्दवा' इति भाषा। शिलातले = शिलापट्टे, सुखमासीनः = सुखोपविष्टः / अग्रतो गच्छ = मार्ग प्रदर्शय तावत्कुञ्जशिलातलस्य / एतु = मत्पृष्ठत आयातु / परिक्रम्य = किञ्चिद्गत्वा, उपविष्टौ = स्थितौ / 'वल्लीमण्डपसनाथे शिलाखण्डे' इति शेषः / राजेति / इत आरभ्य द्वितीयः प्रतिमुखसन्धिः प्रारभ्यते, स च तृतीयाङ्कसमाप्तिपर्यन्तं भविष्यति / तल्लक्षणं च रसाणवे 'बीजप्रकाशनं यत्र दृश्याऽदृश्यतया भवेत् / तत्स्यात्प्रतिमुखम्' इति / धनिकोऽपि'बिन्दु-प्रयत्नानुगमादङ्गान्यस्य त्रयोदश / विलासः, परिसपश्च, विद्युतं, नर्म-शर्मणी॥ नर्मद्युतिः, प्रगमनं, निरोधः, पर्युपासनम् / वज्र, पुष्पमुपन्यासो, वर्णसंहार इत्यपि ॥-इति / तत्र बिन्दुलक्षणं 'प्रयोजनानां विच्छेदे यदविच्छेदकारणम् / यावत्समाप्तिं बन्धस्य स बिन्दुरिति सज्ञितः॥ इति भरते / अर्थात् एकान्त) कर दिया। अब आप वृक्षों की छाया से वितान (चन्दवे) की तरह आच्छादित इस शिला (पत्थर) के ऊपर बैठ जाइए ताकि मैं भी यहाँ सुखपूर्वक बैठू। राजा-अच्छा तो तुम आगे 2 चलो / विदूषक-~आइए, आप मेरे पीछे 2 चले आइए /