________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 105 स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेरयन्त्या तया, यातं यच्च नितम्बयोगुरुतया मन्दं विलासादिव / 'मा गा' इत्युपरुद्धया यदपि तत्साऽसूयमुक्ता सखी, सर्वंतत्किल मत्परायणमहो! कामी स्वतां पश्यति॥२॥ रागकृतां मन्यमानः कामी वञ्चित एवेत्याशयः / कुतः = कस्मात् / तदेव द्रढयति स्निग्धमिति / यत्-अन्यतोऽपि = अन्यस्यां दिशि, अन्यत्र वस्तुनि च, नयने = लोचनयुगलं, प्रेरयन्त्याऽपि = व्यापारयन्त्याऽपि / स्निग्धं वीक्षितं = मसृणमधुरया दृष्ट्या मां प्रति यदवलोकितं / स्निग्धदृष्टिलक्षणं च 'विकाशि-स्निग्ध-मधुरा, चतुरे बिभ्रती भ्रवौ। कटाक्षिणी, साभिलाषा दृष्टिः 'स्निग्धा'ऽभिधीयते ॥'-इति / यच्च-नितम्बयोः = स्वकटिपश्चाद्भागयोः, गुरुतया = गौरवेण, विलासादिव := विलासाख्यहावविशेषेणेव, तथा यातं = गमनं कृतम् / विलासलक्षणं च दर्पणे 'यानस्थानाऽऽसनादीनां, मुखनेत्रादिकर्मणाम् / विशेषस्तु विलासः स्यादिष्टसन्दर्शनादिना' / / ---इति / 'विलासो हावभेदे स्यादिति च मेदिनी। किञ्च ‘मा गा' इति = इत्युक्त्वा, उपरुद्धया = वारितगमनया शकुन्तलया, असूयया सहितं-सासूयं यथा स्यात्तथा = सेये, तत् = तस्मात् / असूययैव, सखी = प्रियवंदा, उक्ता = अभिहिता) 'असूया तु-दोषारोपो गुणेष्वपि' इत्यमरः / तत्सर्व = स्वाभाविकमपि कामिन्याः स्निग्धवीक्षणादिकं, मत्परायणं = मदनुरागकृत अर्थात् अपनी प्रिया को स्वाभाविक चेष्टाओं को भी अपने प्रति प्रेम व अनुराग की ही सूचक समझता हुआ, कामी योंही झूठी 2 आशाएँ लगाया करता है। क्योंकि उस ( शकुन्तला ) ने दूसरी ओर नजर घुमाते हुए भी स्नेहपूर्वक जो मेरे ऊपर दृष्टिपात किया था, और अपने नितम्ब की गुरुता से लीलापूर्वक जो मन्द 2 गमन किया था, और अपनी सखियों के प्रति, अथवा प्रियंवदा के प्रति, 1 'कामः' इति पाटान्तरम् /