________________ सिद्धान्तरनिका। 31 गोः / अन्याथै गोशब्दस्य हस्वः स्यात् / पञ्चगुः / - इति बहुव्रीहिः // 5 // 32 कर्मधारयस्तुल्यार्थे / तुल्याथें पदद्वये कर्मधारयसंज्ञः समासः स्यात् / नीलोत्पलम् / रक्तलता // इति कर्मधारयः // 6 // 33 नाम्नश्च कृता समासः / नाम्नः कृदन्तेन सह तत्पुरुषसमासः स्यात् / कुम्भकारः / व्याघ्रः // 34 सहादेः सादिः / समासे सहादीनां सादिरादेशः स्यात् / सपुत्रः / सध्यङ् / सम्यङ / तिर्यङ् / कोष्णम् / कदुष्णम् / दम्पती / कुदेशः / कापुरुषः / महादेवः / सुगन्धिः / सवयाः / क्षीरोदः / बलाहकः। पृषोदरम् इत्याद्याकृतिगणोऽयम् // 35 अलुक क्वचित् / समासे तद्धिते च विभक्तेलुक न स्यात् / सरसिजम् / उरसिलोमा / युधिष्ठिरः / आत्मनेपदम् / परस्मैपदम् / आमुष्यायणः / 36 आदेश्च द्वन्द्वे / क्वचिदादेर्लोपः स्यात् / पितरौ / भ्रातरौ // 37 शाकपार्थिवादीनां मध्यमपदलोपः। शाक-पार्थिवः। देव ब्राह्मणः // सरूपाणामेकशेषविभक्तौ यो यः शिष्यते स टुप्यमानार्थाभिधायी / देवौ देवाः //