________________ 56 सिद्धान्तरत्निका / 16 नबि / नअव्यये पूर्वपदे तत्पुरुषसंज्ञः समासः स्यात् / नसमासे सति नमोऽदादेशः स्यात् / अधर्मः // 17 अन् स्वरे। समासे नञोऽन् स्यात् , स्वरे। अनश्वः / क्वचिन्न नक्षत्रम् / नासत्यौ / नाकः / तदन्य-तद्विरुद्ध-तदभावेषु नञ् वर्तते ] इति तत्पुरुषः // 2 // 18 चार्थे द्वन्द्वः / [समुच्चयान्वाचयेतरेतरयोग-समाहाराश्चार्थाः / कर्मद्वयस्य एकक्रियानिष्ठत्वं समुच्चयः / कर्मद्वयेऽपि प्रत्येक क्रियासम्बन्धोऽन्वाचयः / पदद्वयेन द्वन्द्व इतरेतरयोगः / बहूनां पदानां समवायः समाहारः / / इतरेतरयोगे समाहारे चार्थे द्वन्द्वसमासः स्यात् // 19 द्वन्देऽल्पस्वरप्रधानेकारोकारान्तानां पूर्वनिपातः / धव-खदिरौ / तापस-पर्वतौ / अग्नि-मारुतौ / पटु-गुप्तौ // 20 स्वराद्यदन्तस्य च / ईश-कृष्णौ // . 21 देवताया द्वन्द्वे पूर्वपदस्यात्वम् / इन्द्रा-बृहस्पती // 22 प्राणि-तूर्य-सेनाऽङ्गानां द्वन्द्वे समाहार एव / [प्राण्यङ्गे यथा-पाणी च पादौ च मुखं च पाणि-द-मुखम् / तूर्याङ्गे यथा-म र्दङ्गिकश्च वैणविकरच मार्दङ्गिक-वैणविकम् / / समाहारे एकवद्भावः //