________________ समासप्रकरणम् / 7 वा टा-योः / अदन्तादव्ययीभावात् टा-ड्योरम् वा / उपकुम्भम् , उपकुम्भेन वा / उपकुम्भात् / उपकुम्भे,उपकुम्भम् // 8 क्वचिद् वा / अपविष्णोः, अपविष्णु / बहिर्वनम् , बहिर्वनात् / आमुक्ति, आमुक्तेः // 9 क्वचिन्न / यथा हरिस्तथा हरः // 10 क्वचिदनव्यये पूर्वपदेऽव्ययीभावः। उन्मत्तगङ्गम् / द्वियमुनम् // 11 क्वचिदव्यये उत्तरपदेऽपि / अक्षपरि / शाकप्रति // 12 आयतीगवादयो निपात्याः / आयतीगवम् / तिष्ठद्गु इत्यादि // 13 टाड-काः / समासे सति ट अ ड क इत्येते प्रत्यया यथाप्रयोगं प्रयोक्तव्याः / उपशरदम् / प्रत्यक्षम् / उपराजम् // इत्यव्ययीभावः // 1 // 14 अमादौ तत्पुरुषः। द्वितीयाद्यन्ते पूर्वपदे तत्पुरुषसंज्ञः समासः स्यात् / ग्रामप्राप्तः / हरित्रातः / यूपदारु / सुखापेतः / राजपुरुषः / अक्षशौण्डः / क्वचित् षष्ठी न समस्यते / नृणां द्विजः / फलानां सुहितः / क्वचिद् द्वितीयाद्यन्तस्य परत्वम् / अतिराः / भूतपूर्वः / अर्धपिप्पली / [ पूर्वकायः // 15 नो वा / नान्तस्य टेर्लोपः स्यात् , य-स्वरयोः / वाग्रहणात् क्वचिदुपधाया लोपः / मध्याह्नः / इत्यादि / क्वचित समासे णत्वं निमित्ते सति / आम्रवणं / शूर्पणखा //