________________ कारकाणि / विष्णुना हता दैत्याः। दैत्यान् हतवान् हरिः / क्त-क्तवत्-शतृशानच्-क्त्वा-क्यप्-तुम्-खलिष्णुकोणत्यादि क्तादयः / ग्राम गतः // 27 अप्रसिद्धक्रियोपलक्षणके भावे सप्तमी। वर्षति मेघे चौर आयातः // 28 निमित्तकर्मणः सम्बन्धे निमित्तात् सप्तमी / केशेषु चमरी हतवान् // __ 29 अन्योक्ते प्रथमा। आख्यात-कृत्-तद्धित-समासनिपातोक्त कारके सम्बन्धे च प्रथमा स्यात् / घटः क्रियते कुलालेन / हरिः करोति जगत् // यम्मिन्नर्थे विधीयन्ते लकारास्तद्धिताः कृतः / समासो वा भवेद् यत्र स उक्तः प्रथमा ततः // 1 // कर्तरि प्रथमा यत्र द्वितीया तत्र कर्मणि / कृदाख्यातक्रियाऽत्र स्यात् कर्तरि प्रत्ययान्विता // 2 // अकर्मको यदा धातुः कम तत्र न सम्भवेत् / / कतैव प्रथमान्तः स्यात् कतरि प्रत्यया क्रिया // 3 // तृतीयान्तो यदा कर्ता प्रथमात्र च कर्मणि / कृदाख्यातक्रियाऽत्र स्यात् कर्मणि प्रत्ययान्विता // 4 //