________________ सिद्धान्तर निका। ___ 15 ऋतेआदियोगे पञ्चमी / ऋते ज्ञानान्न मुक्तिः / एवमारादितरान्य-पृथक्-प्रागादियोगेऽपि // . . 16 स्वाम्यादियोगे षष्ठी-सप्तम्यौ। गवां गोषु वा स्वामी दायादः प्रसूतः प्रतिभूर्वा // 17 कालाध्वनोनॆरन्तर्ये द्वितीया / मासं गच्छति / कोशं पर्वतः // 18 हेतौ तृतीया-पञ्चम्यौ / जाड्येन जाड्याद् वा बद्धः।। 19 किश्चित्मकृति प्राप्तस्य लक्षणे तृतीया / नेत्राभ्यां चारुः / जटाभिस्तापसः // 20 तादयें चतुर्थी / मेधावी मोक्षाय धर्म धत्ते / / 21 तुमोअयोगे कर्मणि चतुर्थी / फळेभ्यो याति // 22 क्यपोप्रयोगे पञ्चमी / हात् प्रेक्षते // 23 निर्धारणे षष्ठी-सप्तम्यौ / छात्राणां छात्रेषु वा पटुः मैत्रः // 24 कर्तृ-कार्ययोरक्तादौ कृति षष्ठी / कर्तरि कर्मणि च षष्ठी स्यात् , क्तादिवर्जिते कृत्प्रत्यये प्रयुज्यमाने / व्यासस्य कृतिः / जगतः कर्ता हरिः॥ 25 गौणकर्मणि वा / नेताऽश्वस्य ग्रामं ग्रामस्य वा // 26 उभयमाप्तौ कर्मणि षष्ठी कर्तरि तु वा / शब्दानामनुशासनमाचार्येणाचार्यस्य वा / क्तादिवनिते इति किम् ?