________________ कारकाणि / 5 कर्तरि करणे च तृतीया / रामेण शरेण रावणो जम्ने। 6 दानपात्रे चतुर्थी / वेदविदे गां ददौ / 7 विश्लेषावधावपादानकारके पञ्चमी। भूभृतोऽवतरति नदी / ग्रामादायाति // 8 सम्बन्धे षष्ठी / राज्ञः पुरुषः // ____9 आधारे सप्तमी / औपश्लेषिकम् 1, सामीप्यम् 2, अभिव्यापकम् 3, वैषयिकम् 4, नैमित्तिकम् 5, औपचारिकं 6, चेति / कटे आस्ते / वटे गावः शेरते / तिलेषु तैलम् / हृदि ब्रह्मामृतं परम् / धीरो युद्धे संनह्यते / अङ्गुल्यग्रे करिणां शतम्॥ 10 विना-सह-नम-ऋते-निर्धारण-स्वाम्यादिभिश्च / एतैोंगेऽपि द्वितीयाऽऽद्या विभक्तयः स्युः / विना धर्ममफलं जन्म / एवमन्तरेणान्तरा-निकषादियोगेऽपि / [लङ्कां निकषा हनिष्यति / ] 11 सहादियोगे तृतीया। मह शिष्येणागतो गुरुः / एवं साकं-सार्ध-समयोगेऽपि // 12 तुल्यायोगेऽपि / कृष्णेन तुल्यः / रामेण सहशः // 13 नमआदियोगे चतुर्थी / नमः कृष्णाय / एवं स्वस्ति-स्वाहा-स्वधा-ऽलं-वषड्योगेऽपि // 14 क्रुध-दुहेाऽसूया-स्पृहार्थानां योगेऽपि / हरये क्रुध्यति द्रुह्यति ईर्ध्यति असूयति स्पृहयति //