________________ सिद्धान्तरनिका / प्रज्ञादिभ्योऽण् / प्राज्ञः / आर्चः। श्राद्धः / वार्तः // तुन्दि-बलि-चटिभ्यो भः / तुन्दिभः / बलिमः / वटिभः // कृष्यादिभ्यो वलच् दीर्घश्च / कृषीवलः // शृङ्ग-वृन्दाभ्यामारकच् / शृङ्गारकः / वृन्दारकः॥ ऊर्णाऽहं-शुभंभ्यो युः / अस्त्यर्थे / ऊर्णायुः / अहंयुः / 'शुभंयुः // अर्णः-केशयोः / अर्णवः / केशवः / / लोमादिभ्यः शः / लोमशः / रोमशः // ] इति तद्धितप्रक्रिया // अथ कारकाणि / 1 लिङ्गार्थे प्रथमा / नामार्थमात्रे प्रथमा विभक्तिः स्यात् / कृष्णः / श्रीः / ज्ञानम् // 2 आमन्त्रणे च / सम्बोधने च प्रथमा स्यात् / हरे ! प्रसीद // 3 शेषाः कार्ये कर्व-साधनयोर्दानपात्रे विश्लेषावधौ सम्बन्ध आधार-भावयोः / द्वितीयाद्या एष्वर्थेषु भवन्ति / 4 कर्मणि द्वितीया / कटं कुरुते पटुः // .