________________ 48 सिद्धान्तरनिका / स्यात् / यस्य इट्, वस्य उट् / पश्चाद् वृद्धिः / वैयाकरणः / सौवश्वः // 42 इतो जातार्थे / लजितः / फलितः / / 43 तर-तमेयस्विष्टाः प्रकर्षे / स्पष्टम् / शुक्लतरः / शुक्लतमः // ईयस्विष्ठौ डितौ / लघीयान् / लघिष्ठः // ४४गरिष्ठादयो निपात्याः / गरिष्ठः, गरीयान् , गरिमा / प्रेष्ठः, प्रेयान् , प्रेमा / श्रेयान् , श्रेष्ठः / ज्यायान् , ज्येष्ठः / भूयिष्ठः, भूयान् // 45 किमोऽव्ययादाख्याताच्च तर-तमयोराम् / किंतराम् , किंतमाम् / कुतस्तराम् / उच्चैस्तराम् उच्चैस्तमाम् / पचतितराम् / पठतितमाम् // .. ___46 प्रमाणे दध्न-द्वयस्-मात्राः / जानुदघ्नम् / शिरोद्वयसम् / पुरुषमात्रम् / 47 निर्धारणे किम्-यत्-तद्भ्यो डतर-डतमौ / कतरः, कतमः / यतरः / तरः / / 48 सङ्ख्येयविशेषावधारणे द्वि-त्रिभ्यां तीयः त्रेस्तृ च / द्वितीयः / तृतीयः // 49 षट्-कति–कतिपय-चतुर्यस्थट् / षष्ठः / कतिथः / कतिपयथः / चतुर्थः // . 50 तुर्य-तुरीयौ निपात्यौ / तुर्यः / तुरीयः //