________________ तद्धितप्रकरणम् / 9 चटकादैरण.। चाटकरः // 10 लुग् बहुत्वे क्वचित् / बहुत्वमङ्ख्यां स्यात्ये च प्रत्ययस्य लुक् / गर्गाः / वसिष्ठाः / चटकाः // 11 देवतेदमर्थे / देवतार्थे इदमर्थे चोक्ता वक्ष्यमाणाश्च प्रत्ययाः स्युः / ऐन्द्रम् / सौम्यम् / आग्नेयम् / अग्निषोमीयम् // 12 क्वचिद् द्वयोः। पूर्वोत्तरपदाद्योः क्वचिद् वृद्धिः स्यात् . णिति / आग्निमारुतम् / सौहार्दम् // 13 कल्याणादेरिन। | काल्याणिनेयः।] सौभागिनेयः / सौभाग्यम् // 14 णितो वा। उक्ताः प्रत्यया णितो वा स्युः / पित्र्यम् / गव्यम् / त्वदीयम् / यदीयम् // 15 कारकात् क्रियायुक्ते / कारकादप्येते प्रत्ययाः स्युः, क्रियायुक्ते कर्तरि कर्मणि च / को कुमम् / माथुरः // 16 केनेयेकाः। कारकात् क ईन इय इक इत्येने प्रत्ययाः स्युः, कर्तरि कर्मणि चोक्त-वक्ष्यमाणेष्वर्थेषु / ते च णितो वा ! क्रमकः / पदकः / ग्रामीणः / कुलीनः / गार्गीयः / क्षत्रियः / इन्द्रियः / आक्षिकः / हालिकः / धार्मिकः / पौराणिकः // __ 17 आख्याताव्यय-सर्वादेष्टेः प्रागकः / पचतकि / उच्चकैः / अयकम् // ..