________________ सिद्धान्तरनिका / अथ तद्धितप्रकरणम् / 1 अपत्येऽण् / नाम्नोऽपत्येऽऽण् स्यात् / / 2 आदिस्वरस्य जिगति वृद्धिः। स्वराणामादिस्वरस्य वृद्धिः, णिति तद्धिते // 3 यस्य लोपः / वर्णावर्णयोर्लोप: स्यात् , तद्धितय-स्वरयोरोपि च / वासिष्ठः // 4 वो य-स्वरे / उवर्णस्य ओकारस्य चा व् स्यात् , यकारे स्वरे च / औपगवः / भार्गवः // 5 ऋ उरणि / सङ्ख्यापूर्वस्य मातृशब्दस्य ऋत उर् स्यादणि / पाण्मातुरः / द्वैमातुरः // ' 6 शिवादिभ्योऽपि / शैवः / गाङ्गः // 7 अत इबऋषेः / अनृषिशब्दादकारान्तादपत्येऽर्थे इञ् स्यात् / दैवदत्तिः। दाशरथिः / क्वचिद् ऋषिशब्दादपि / गार्गिः / औडुलोमिः // 8 ण्यायनणेयण-णीया गर्ग-नडात्रि-स्त्री-पितृष्वस्रादेः / गर्गा देयॆः / नडादेरायनण् / अत्र्यादेः स्त्रीप्रत्ययान्ताच्च एयण / पितृष्वस्रादेीयः / एतेऽपत्यार्थेषु स्युः / गार्ग्यः / वात्स्यः / नाडायनः / वात्स्यायनः / आत्रेयः। गाङ्गेयः / पैतृष्वतीयः //