________________ षड्लिङ्गप्रकरणम् / 167 तब मम.ङसा / स्पष्टम् / तव / मम / युवयोः / आवयोः // 168 सामाकम् / ताभ्यां पर: सामा स्यात् / युष्माकम् / अस्माकम् / त्वयि ! मयि युवयोः / आवयोः / युष्मासु ! अस्मासु // 162. युष्मदस्मदोः षष्ठी-चतुर्थी-द्वितीयाभिस्ते मे वां नौ वस्-नौ। षष्ठी-चतुर्थी-द्वितीयासहितयोयुष्मदस्मदोरेकत्वे ते मे, द्वित्वे वाम् नौ, बहुत्वे वस्-नसौ इत्यादेशौ स्तः // 170 त्वा-माऽमा / अमा सहितयोस्तयोस्त्वामाऽऽदेशौस्तः // श्रीशस्त्वाऽवतु माऽपीह दत्तात् ते मेऽपि शर्म सः / स्वामी ते मेऽपि स हरिः पातु वामपि नौ विभुः // 1 // सुखं वां नौ ददात्वीशः पतिर्वामपि नौ विभुः / सोऽव्याद् वो नः शिवं वो नो दद्यात् सेव्योऽत्रवः स नः॥२॥ 171 नादौ / वाक्यादौ पादादौ नैते आदेशाः स्युः। त्वां पातु / वैदेरशेषैः स वेद्योऽस्मान् विभुः सर्वदाऽवतु / / 172 निरुपपदात् / सम्बोधनात् परयो युष्मदस्मदो] नैते स्युः / देवास्मान् पाहि सर्वदा // 173 चादिभिश्च / च वा ह अह एव एभिर्योगे नैते / आवयोर्युक्योश्चेशो वेशो हेशस्तथैव च / / अहेश आवयोरेव हरिर्मामेव रक्षतु // 1 // इति युष्मदस्मत्प्रक्रिया /