________________ सिद्धान्तर निका। अथ युष्मदस्मदी। 157 त्वमह सिना / सिसहितयोयुष्मदस्मदोस्त्वमह. मित्यादेशौ स्तः / त्वम् / अहम् // 158 युवावौ द्विवचने / युवावादे शौ स्तः // 159 आमौ / ताभ्यां पर औ आम् स्यात् / युवाम् / आवाम् // . 160 यूयं वयं जसा / नसा सहितयोस्तयोयूयं वयमित्यादेशौ स्तः / यूयम् / वयम् / / 161 त्वन्मदेकत्वे / तयोस्त्वन्मदौ स्त एकत्वे // 162 आऽम्-स्-भौ / तरोष्टेरात्वं स्यात् , अमि सकारे मिति च / त्वाम् / माम् / युवाम् / आवाम् / युष्मान् / अस्मान् // . . 163 ए टा-ङ्योः / तयोष्टरेत्वं स्यात् , टा-ङ्योः / त्वया। मया। युवाभ्याम् / आवाभ्याम् / युष्माभिः / अस्माभिः॥ 164 तुभ्यं मह्यं ङया। डेसहितयोस्तयोस्तुभ्यं मह्यमित्यादेशौ स्तः / तुभ्यम् / मह्यम् / युवाभ्याम् / आवाभ्याम् // 165 भ्यस् इभ्यम् / ताभ्यां परो भ्यस् श्भ्यं स्यात् / युष्मभ्यम् / अस्मभ्यम् // 166 ङसि-भ्यसोः स्तुः / स्पष्टम् / त्वत् / मत् / युवाभ्याम् / आवाभ्याम् / युष्मत् / अस्मत् //