________________ 33 षड्लिङ्गप्रकरणम् / 134 अञ्चेः पुंसि पश्चसु नुम् / 135 दिशाम् [कुः]। दिश्-स्पृशादीनां कुः स्यात्, स्यादौ रसे पदान्ते च / तिर्यङ् तिर्यश्चौ तिर्यञ्चः // 136 तिरश्चादयो निपात्याः / शप्तादौ स्वरे तद्धितयस्वरयोरीकारे ईपि च / तिरश्चः / तिरश्चा तिर्यग्भ्याम् / तिर्यक्षु / एवं प्रत्यङ् / प्रतीचा प्रत्यग्भ्याम् / प्रत्यक्षु / उदङ् / उदीचः / उदीचा उदग्भ्याम् / उदक्षु / सम्यङ् / समीचः / समीचा सम्यग्भ्याम् / सम्यक्षु // 137 वितो नुम् / उकारानुबन्धस्य ऋकारानुबन्धस्य च नुम् स्यात् , पुंसि पञ्चसु / 138 सम्महतोऽधौ दीर्घः शौ च / सन्तस्यापशब्दस्य महच्छब्दस्य च दीर्घः स्यात् , पुंसि पञ्चस्वधिषु शौ च / महान् महान्तौ महान्नः / महता महद्भ्याम् / महत्सु / हे महन् // पचन् पचन्तौ पंचन्तः / हे पचन् / 139 शत्रन्तानां द्विरुक्तानां जक्षादीनां च न नुम् शौ 'वा। ददत् ददतः / एवं नक्षत् जाग्रत् दरिद्रत् चकासत् शाप्सत् / ___ सुदिक् , सुदिग् सुदिशौ सुदिशः / सुदिशा सुदिग्भ्याम् / सुदिक्षु / हे सुदिक् , सुदिग् // षष्शब्दो नित्यं बहुवचनान्तस्त्रिषु सरूपः / षट् , षड़। षड्भिः / षड़भ्यः / 3