________________ _ षड् लिगप्रकरणम् / 120 थो नुन् / पथि-मथोस्थस्य नुटू स्यात् , पुंसि “पञ्चसु शौ च / 121 आ सौ। पथि-मथि-ऋभुक्षां टेरात्वं स्यात् , सौ। पन्थाः पन्थानौ पन्थानः // 122 पथां टेः / पथि-मथि-ऋभुक्षां टेर्लोपः स्यात् , शसादौ स्वरे, ईकारे ईपि च / पथः / पथा पथिभ्याम् / पषिषु // एवं मन्थाः / ऋभुक्षाः // 123 इनां शौ सौ। इन् हन् पूषन् अर्यमन् इत्येतेषां शौ सौ चाधौ परे उपधाया दीर्घः स्यात्, नान्यत्र / दण्डी दण्डिनौ दण्डिनः। दण्डिनम् दण्डिनौ दण्डिनः / दण्डिना इत्यादि। एवं यशस्विन्-वाग्मिन्-प्रभृतयः // वृत्रहा वृत्रहणौ वृत्रहणः / शसि अल्लोपे१२४ हनो ध्ने / हन्तेईस्य घः स्यात् , नकारे णिति च / धन्यवधाने णत्वं न / वृत्रध्नः / वृत्रघ्ना वृत्रहभ्याम् इत्यादि / एवं पूषन्-अर्यमन्प्रभृतयः // . सङ्ख्याशब्दाः पञ्चनप्रभृतयो बहुवचनान्तास्त्रिषु सरूपाः / 125 जम्-शसोलुक् / पान्त-नान्तसङ्ख्याया जस्शसोर्टक् स्यात् / पञ्च 2 // पञ्चभिः / पञ्चभ्यः 2 / . 126 ष्णः / पान्त-नान्तसङ्ख्यावाः परस्यामो नुटू स्यात् / पञ्चानाम् / पञ्चसु / एवं सप्तन्–नवन्-दशन्-प्रभृतयः // अष्टनशब्दस्य विशेषः