________________ 26 . सिद्धान्तरनिका / 89 अच्चास्थ्नां टाऽऽदौ / अस्थ्यादीनां नुम् स्यात् , इकारस्य चाकारः, टादौ स्वरे // ___ 90 अल्लोपः स्वरेऽम्वयुक्ताच्छसादौ। अन्नन्तस्योपधाया लोपः स्यात्, शसादौ [ स्वरे ] मकार-वकारान्तसंयोगान्न / अस्थना / अस्थ्ने / अस्थनः 2 / अस्थ्नाम् // 91 वेड्योः / अन्नन्तस्योपधाया वा लोपः स्यात् , ईङि-. त्येतयोः परयोः / वकार-मकारान्तसंयोगान्न / अस्थिन, अस्थनि / / 92 वृणां नपुंसके धौ गुणो वा। हे अस्थे, हे अस्थि / / एवं दधि-सक्थि-अक्षिशब्दाः / दध्ना दधिभ्यां दधिभिः / सक्थ्ना / अक्ष्णा // इकारान्तो वारिशब्दः- वारि वारिणी वारीणि 2 / वारिणा। वारिषु // ग्रामणि ग्रामणिनी ग्रामणीनि 2 / 93 टाऽऽदावुक्तपुंस्कं पुंवद् वा / नाम्यन्तं नपुंसकलिङ्ग टाऽऽदौ स्वरे पुंवद् वा स्यात् / ग्रामण्या, ग्रामणिना // स्वरादौ सर्वत्राप्येवम् / , उकारान्तो मधुशब्दः-मधु मधुनी मधूनि / पुनरपि / मधुना मधुभ्याम् मधुभिः इत्यादि / सुलु सुलुनी सुलूनि 2 / सुल्वा, सुलुना / सुल्वे, मुलुने इत्यादि। ऋकारान्तो धातृशब्दः-धातृ धातृणी धातणि 2 / धात्रा, धातृणा / धात्रे, धातृणे इत्यादि / एवं ज्ञातृ-कादयः /