________________ . 25 षड्लिङ्गप्रकरणम् / अथ स्वरान्ता नपुंसकलिङ्गाः। अकारान्तः कुलशब्द:७९ अतोऽम् / अदन्तात क्लीवात् स्यमोरम् स्यात् / कुलम् // 80 ईमौ / क्लीबात् पर औ ई: स्यात् / कुले // 81 जस्-शसोः शिः। क्लीवात् जस्-शसोः शिः स्यात्॥ 82 नुमयमः / क्लीवस्य नुम् स्यात् शौ, यमान्तस्य न॥ 83 नोपधायाः / नान्तस्योपधाया दीर्घः स्यात्, शौ, पश्चस्वाधिषु नामि च ईति न / कुलानि / पुनः कुलं कुले कुलानि / शेषं देववत् // मूल-फल-पत्र-पुष्पादयोऽप्येवम् / / 84 श्त्वन्यादेः / अन्यादेः क्लीवात् स्यमोः स्तुभवति / अन्यत् , अन्यद् अन्ये अन्यानि // 85 अन्यादेर्धेलोपो न / हे अन्यत् / शेषं सर्ववत् // 86 नपुंसकस्य [ हस्वः ] / नपुंसकस्य इस्वः स्यात्, स्यादौ / शेषं कुलवत् // इकारान्तोऽस्थिशब्दः८७ नपुंसकात् स्यमोलक् / स्पष्टम् / अस्थि // - 88 नामिनः स्वरे / नाम्यन्तस्य क्लीवस्य नुम् स्थात् , स्यादौ स्वरें / अस्थिनी अस्थीनि / पुनः //