________________ षलिङ्गप्रकरणम् / 43 ऋक् डे: / सखि-पत्योर्ऋक् स्यात्, ङसि-ङसोः // 44 ऋतो ङ उः / ऋदन्तात् ङसि-ङसोरस्य उः स्यात् , स च डित् / सख्युः सखिभ्याम् सखिभ्यः / सख्युः सख्योः सखीनाम् / सख्यौ सख्योः सखिषु / हे सखे हे सखायौ हे सखायः // तदन्तात् तु परमसखा परमसखायौ परमसखायः / पत्या / पत्ये / पत्युः 2 / पत्यौ / शेषं हरिवत् / पतिः समासे हरिवत् / भूपतये। द्विशब्दो नित्यं द्विवचनान्तः४५ त्यदादेष्टेरः स्यादौ / स्पष्टम् / द्वौ 2 / द्वाभ्याम् 3 / द्वयोः 2 // त्रिशब्दो नित्यं बहुवचनान्तः-त्रयः / त्रीन् / त्रिभिः / त्रिभ्यः 2 / 46 स्यङ् / [त्रेरयङ्) स्यात् नामि / त्रयाणाम् / त्रिषु॥ कतिशब्दोऽपि नित्यं बहुवचनान्त:४७ डतेः / डत्यन्तात् जस्-शसोलुक् स्यात् / कति 2 / कतिभिः / कतिभ्यः 2 / कतीनाम् / कतिषु / सुश्रीः। 48 योर्धातोरियुवौ स्वरे। धातोरिवर्णोवर्णयोरियुवौ स्याताम्, स्यादौ स्वरे / सुश्रियौ सुश्रियः / सुश्रियम् सुश्रियो सुश्रियः / सुश्रिया सुश्रीभ्याम् सुश्रीमिः इत्यादि / एवं सुधीयवक्रयादयः॥