________________ षलिङ्गप्रकरणम् / स्मिनौ वा। पूर्वे, पूर्वाः / पूर्वस्मात् , पूर्वात् / पूर्वस्मिन् , पूर्वे। शेषं सर्ववत् // 28 प्रथम-चरम-तयायडल्पा-कतिपय-नेमानां जसी वा / प्रथमे, प्रथमाः / शेषं देववत् / नेमे, नेमाः / शेष सर्ववत् // 29 तीयान्तस्य न्तिसु वा सर्ववत् / द्वितीयस्मै, द्वितीयाय / द्वितीयस्मात् , द्वितीयात् / द्वितीयस्मिन्, द्वितीये / शेपं देववत् // उभशब्दो नित्यं द्विवचनान्तः / उभौ 2 / उमाभ्याम् 3 / उभयोः 2 / निर्नरः / 30 जरायाः स्वरादौ जरस् वा वक्तव्यः / 'एकदेशविकृतमनन्यवद् ' ' निर्दिश्यमानस्यादेशा भवन्ति ' / सोमपाः सोमपौ सोमपाः। सोमपाम् सोमपौ / सोमपा+शस् / 31 आतो धातोर्लोपः / धातोराकारस्य लोपः स्यात् , शसादौ स्वरे / सोमपः // ' क्विबन्तानां धातुत्वं न हीयते / ' सोमपा सोमपाभ्याम सोमपाभिः। इत्यादि / एवं विश्वपाप्रभृतयः॥ - हरिः / 32 औ यू / इदुदन्तात् पर औ यू स्यात् / हरी॥ 33 ए ओ जसि / इदुदन्तस्य जसि ए ओ स्यात् / हरयः // हरिम हरी हरीन् /