________________ सिद्धान्तरलिका / अथ विसर्गसन्धिः। 66 विसर्जनीयस्य सः / विसर्जनीयस्य सः स्यात, खसे। कस्तनोति // 67 शसपरे खसे विसर्गस्य विसर्ग एव / क: त्सरः / रामः प्साता / घनाघनः क्षोभणः // 68 कुप्वोः ४क पौ वा / कवर्ग-पवर्गसम्बन्धिनि खसे विसर्गस्य क पौ वा स्तः। *क पाविति जिह्वामूलीयोपध्मानीययोः संज्ञा / क 4 करोति, कः करोति / क पचति, कः पचति // 69 वाचस्पत्यादयो निपात्याः। वाचस्पतिः / मास्करः / यशस्काम्यति। नमस्करोति / पुरस्करोति / तिरस्करोति ।इत्यादयः॥ 70 रोऽरात्रिषु / अहो विसर्गस्य पदान्ते रः स्यात्, न तु रात्र्यादिषु / अहर्गणः / न तु रात्र्यादिष्विति किम् ! अहो. रात्रम् / अहो रूपम् / अहो रथन्तरम् // 71 अतोऽत्युः / अकाराद् विसर्गस्य उः स्यात् , भति परे / कोऽर्थः // 72 हवे / अकाराद् विसर्गस्य उः स्याद् , हवे / देवो याति।। 73 आदबे लोपश् / अवर्णाद् विसर्गस्य लोपश् स्याद् , अवे / देवा भत्र // 74 स्वरे यत्वं वा / देवा यिह, देवा इह //