________________ सन्धिप्रक्रिया / अथानुस्वारसन्धिः। 60 मोऽनुस्वारः / पदान्ते मकारस्यानुस्वारः स्यात् , हसे परे / तं हसति // 61 नश्चापदान्ते झसे / अपदान्ते नकारस्य मकारस्यचानुस्वारः स्यात, झसे हकारे च परे / यशांसि / पुंभ्याम् / स्वनड्वांहि // 62 यमा यपेऽस्य / अनुस्वारस्य यमा भवन्ति, यपे परे / अस्य यपस्य सवर्णाः / शान्तः / अङ्कितः / अञ्चितः / कुण्ठितः / गुम्फितः // 63 वा पदान्तस्य / पदान्तेऽनुस्वारस्य यमा वा स्युः, यपे परे / त्वं करोषि, त्वङ् करोषि / तं तनोति, तन् तनोति / संयता, सँय्यता / संवत्सरः; सव्वत्सरः / यं लोकम् , यल्लोकम् / / 64 क्विबन्ते राजतौ परे समो मस्य म एव स्यात् / सम्राट् // . 65 य-व-ल-म-नपरे हकारे मस्य य-व-ल-मना वा / किं ह्यः, किय् ह्यः / किं हुलयति, किव हुल्यति / कि ह्लादयति, किल् लादयति / किं मलयति, किम् मलयति / किं हनुते, किन् नुते // इत्यनुस्वारसन्धिः।