________________ सिद्धान्तरनिका। स्यादीनां स्तोः ष्टुत्वं न स्यात् / लिट्सु, लिटत्सु / ... 50 तोलि लः / तवर्गस्य लकारे लत्वं स्यात् / तल्लुनाति / मवॉल्लिखति // 51 नः सक् छते / नान्तस्य पदत्यावे परे छते सक् स्यात् / राजश्चित्रम्। भवांस्तनोति / अबे परे किम् ? सन्त्सरुः // 52 न प्रशानः / प्रशान् तनोति // . 53 शे चग वा / नान्तस्य पदस्य शे परे वा चक् स्यात् / मवाञ्च् शूरः, भवाञ्छूरः, भवाञ् शूरः, भवाञ्च् छूरः / / 54 जू–ण-नो इस्वाद् द्विः स्वरे। इस्वात् पदान्ते डकारणकार-नकारा द्विः स्युः स्वरे परे / प्रत्यङ्गिदम् / सुगण्णिह / राजनिह // 55 छः / हूस्वाच्छकारो द्विः स्यात् // 56 खसे चपा झसानाम् / झसानां खसे चपाः स्युः / तव च्छत्रम् // 57 दीर्घादपि / हीच्छति // 58 पदान्ते दीर्घाद् वा / लक्ष्मी छाया / लक्ष्मीच्छाया॥ 59 टनात् सस्य वा धुट् / षट्त् सन्तः / सन्त् सः, सन् सः // .::... इति व्यञ्जनसन्धिः /