________________ सन्धिप्रक्रिया। अथ व्यञ्जनसन्धिः। 40 चपा अबे जबाः / पदान्ते चपा जबाः स्युः, अबे / षडत्र // 41 बमे बमा वा / पदान्ते चपा अमे जमा वा स्युः / षण्मम, षड्मम // 42 प्रत्ययसमे जबस्य नित्यं बमः / तन्मात्रम् / / 43 चपाच्छः शः / चपात् परस्य शस्य छो वा स्वादये। वाक्छूरः, वाक्शूरः / अबे किम् ? वाक्श्चोतति // 44 हो झभाः / चपादुत्तरस्य हस्य झभा वा स्युः / यद्वर्गगश्चपस्तद्वर्गगश्चतुर्यो भवति / तद्धविः, तद्हविः / वाग्धरिः, वाग्हरिः // 45 स्तोः श्चुभिः श्चुः / सकार-तवर्गयोः शकारचवर्गाभ्यां योगे शकार-चवर्गों स्तः / योग उभयथा सम्बन्धः / कश्चरति / कश्शूरः / तच्चित्रम् / तच्छास्त्रम् // 46 न शात / शात् परस्य तोः श्चुत्वं न स्यात् / प्रश्नः॥ 47 ष्टुभिः ष्टुः / सकार-तवर्गयोः षकार-टवर्गाभ्यां योगे षकार-टवर्गों स्तः / कष्षष्ठः / कष्टीकते / तट्टीकते // 48 न पि / षकारे स्तोः ष्टुर्न स्यात् / भवान् षष्ठः // 49. टोरन्त्यात् / पदान्ते टवर्गात् परस्य स्तोः ष्टुर्न स्यात् / षण्नरः, षड्नरः / षट् सीदन्ति // 01