________________ सन्धिप्रक्रिया / 21 नामधातौ मा। प्रोघीयति, प्रौघीयति // 22 ओत्वोष्ठयोः। पूर्वस्यावर्णस्य वा लोपः समासे / विम्बोष्ठः, बिम्बौष्ठः / स्थूलोतुः, स्थूलौतुः / समासे इति किम् ? तवौष्ठः / तवौतुः / 23 ऋ अर् / अवर्ण ऋवणे सह अर् स्यात् / तवद्धिः / 24 ऋकारादौ धातौ आर् / उपार्च्छति // 25 ऋते तृतीयासमासे / सुखार्तः / तृतीयासमासे किम् ? परमतः // 26 नामधातौ वा / प्रार्षभीयति, प्रर्षभीयति // 27 ल अल् / अवर्ण लवणे सह अल् स्यात्। तवल्लकारः, तवल्कारः॥ 28 लूदादौ नामधातौ वा आल् / प्रालकारीयति, प्रल्कारीयति॥ इति स्वरसन्धिः / . अथ प्रकृतिभावः। 29 नामो। अदसोऽमीशब्दः सन्धि न याति / अमी अश्वाः // 30 वे द्वित्वे / द्विवचने ईदूदेदन्ताः सन्धि न यान्ति / भग्नी भत्र / पटू अत्र / माले आनय //