________________ सिद्धान्तरनिका / . 8 ए अय् / ए अय् स्यात् स्वरे / नयनम् // 9 ओ अव / ओ अव् स्यात् स्वरे / भवनम् // 1. ऐ थायू / ऐ आय् स्यात् स्वरे / नायकः / 11 औ आ / औ आव् स्यात् स्वरे / पावकः / 12 य्वोर्लोपश् वा पदान्ते / पदान्ते अयादीनां वोलों पश् वा स्यात् / त आगताः, तयागताः / पट इह, पटविह / तस्मा इदम् , तस्मायिदम् / ता इह, ताविह // 13 एदोतोऽतः। पदान्ते एदोतः परस्यातो लोपश् स्यात्। तेऽत्र / पटोऽत्र // 14 सवर्णे दीर्घः सह / समानस्य सवणे सह दीर्घः स्यात् / दैत्यारिः / श्रद्धात्र / दधीह / श्रीशः / भानूदयः / होतृकारः / 15 शकन्ध्वादिषु टेर्लोपो वाच्यः। शकन्धुः / कुलटा / - मनीषा / हलीषा // . .. 16 अ इ ए। अवर्ण इवणे सह ए स्यात् / तवेदम् // 17 उ ओ / अवर्ण उवणे सह ओ स्यात् / गङ्गोदकम् / / 18 ए ऐ ऐ / अवर्ण एकारे ऐकारे च संह ऐ स्यात् / तवैषा / तवैश्वर्यम् // 19 ओ औ औ / अवर्ण ओकारे औकारे च सह औ स्यात् / तवौदनम् / ममौन्नत्यम् // 20 एदोदादौ धातौ पूर्वस्थोपसर्गस्यावर्णस्य लोपः। प्रेजते / उपोषति //