________________ यस्याः पूज्यतमा भवन्ति भविनो यस्याः प्रभावो महान् यस्यामस्ति शुभो बृहद्गुणगणः सा गीः प्रदद्यान्मतिम् // -मुनिहिमांशुविजयोऽनेकान्ती. / स्तावं स्तावं सुगुणकलितां भारति ! त्वां सदाऽहं __स्मारं स्मारं हृदि च यतनात्सार्ववक्राब्जपूताम् / धारं धारं कृतिजननुतां भव्यसौख्यप्रदात्रीं . याचे मातः ! सुवचननिधे ! ज्ञानदानाय शीघ्रम् // -अनेकान्ती. (5) या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता ___ या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना / या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा || शारदा शारदाम्भोजवदना वदनाम्बुजे / सर्वदा सर्वदाऽस्माकं सनिधि सन्निधिं क्रियात् // (7) पातु वो निकषयावा मतिहम्न: सरस्वती / प्राज्ञेतरपरिच्छेदं वचसैव करोति या // .