________________ द्वि-त्रेस्तीयः, चतुःषड्भ्यां थट, नान्तान्मट् दशावधि / एकादशादेडः,चैकोनविंशत्यादितस्तमट् // 29 // सर्वेभ्यस्त्व-तलौ व्यण च, कापीमन् भाववाचकाः / शुक्लत्वं शुक्लता शौक्ल्यं, शुक्लिमा शुक्लभाववत् / / 30 // प्रमाणे द्वयसट् दध्नट् , मात्रट् च प्रकृते मयट् / कल्पप् देश्यप च देशीयर किञ्चिदूने विशेषणात् // 31 // संहितैकपदे नित्या नित्या धातूपसर्गयोः / नित्या समासे, वाक्ये तु सा विवक्षामपेक्षते // 32 // अविकारोऽद्रवं मूत प्राणिस्थं स्वांगमुच्यते / च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु // 33 // आकृतिग्रहणाजातिर्लिंगानां न च सर्वभाक् / सकृदाख्यातनिर्माह्या गोत्रं च चरणैः सह // 34 // इदमस्तु सनिकृष्टं समीपतरवर्ति चैतदो रूपम् / अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् // 35 // उपसर्गेण धावर्थो बलादन्यत्र नीयते / विहाराऽऽहार-संहार-प्रहार-प्रतिहारवत् / / 36 // धावर्थ बाधते कश्चित् कश्चित्तमनुवर्तते / तमेव विशिनष्टयऽन्योऽनर्थकोऽन्यः प्रयुज्यते // 37 // निपाताश्वोपसर्गाश्च धातवश्चेत्यमी त्रयः / अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् // 38 //