________________ ( 189 ) यदा पयोऽर्था कर्नादेः प्रवृत्तिरविवक्षिता / तदा मुख्याऽसंनिधानाद् गवादेरेव मुख्यता // 19 // गत्यर्थाऽकर्मकाण्यन्ताः, कर्तृकर्मोक्तिताजुषः / चैत्रेण गम्यते मैत्रो ग्रामं मासमथास्यते // 20 // . बोधाऽऽहारार्थ-शब्दाऽऽप्यधातौ ण्यन्ते द्वयोक्तता। यथार्थ बोध्यते शिष्यो गुरुणाऽर्थोऽथ शिष्यकम् // 21 // दैकर्यहेतुरहिते, णिगन्तधातौ द्विकर्तृता तत्र / उक्तः प्रयोजक: स्यात् , कर्ताऽनुक्तः प्रयोज्यस्तु // 22 // गणजा नामजाः सौत्रा धातपस्विविधाः स्मृताः / भ्वाधादिनवकोक्ता ये, गणजास्ते प्रकीर्तिताः // 23 // काम्य-क्यन्-णिज्-युतान्तानि, विप्-क्यङ्ङन्तानि यानि च / तानि नामानि धातुत्वं यान्ति ते नामधातवः // 24 // सौत्राः कण्ड्वादयोऽन्दोलण-प्रेढोलण्ममुखा अपि / आत्मोभय-परपदादथवा धातवस्त्रिधा // 25 // दशानामपि पूर्वाणि, वचनानि नवैव हि / / परस्मैपदसंज्ञानि, प्रत्ययौ च शत-क्वम् // 26 // वचनानि नवान्त्यानि, कानाकशौ च प्रत्ययौ / आत्मनेपदमेते च, योज्यते धात्वपेक्षया // 27 // तदस्यास्तीति मत्वर्थस्तत्र स्यात् सर्वतो मतुः / धनवान बुद्धिमान् धीमानदन्तादिन् धनी गुणी // 28 / /