________________ (188) शानातृशौ वर्तमाने, शृण्वानोऽर्थमघं द्विषन् / तीते क्त-क्तवतू तीर्थं गतः पूजितवान् जिनम् // 9 // शुद्धाशुद्धा क्रिया द्वेधा, शुद्धा त्याद्यन्तधातुजा / अशुद्धा कृत्प्रत्ययान्ता, ते तु शत्रानशादयः // 10 // त्रिधा धातुरकर्मा च, द्विकर्मा चैककर्मकः। तत्राऽकर्मा द्विधा नित्याऽकर्माऽविवक्षिताप्यकः // 11 // स नित्याकर्मको यस्य, कर्म नैवास्ति मूलतः / लज्जते विद्यते तिष्ठत्येष जागर्ति वर्धते // 12 // विवक्षितं न यत्कर्म, सोऽविवक्षितकर्मकः / यथा करोत्यधीतेऽसौ, क्रियतेऽधीयतेऽमुना // 13 // उपसर्गाद् विपर्यस्येत, सकर्माऽकर्मता क्वचित / यथोद्गच्छति मार्तण्डः, पराभवति तामसान् // 14 // सोपसर्गोऽन्यार्थे वृत्ति-रन्तर्भूतः क्रियान्तरः / णिगन्तोऽन्तर्णिगों वा, पञ्चोपायैः सकर्मकः // 15 // धातोरर्थपरावर्तोऽप्युपसर्गात् कचिद्भवेत् / विहाराहार-नीहार-प्रतीहार-प्रहारवत् // 16 // उभयोः कर्मणोादेः, प्रधानेतरता यथा / आरभ्यते क्रिया यस्मै तद् दुग्धाचं प्रधानकम् // 17 // तत्सिद्धयै क्रियया यत्तु, व्याप्यते यद् गवादिकम् / तदप्रधानं गौणाख्यं, गोपालो दोग्धि गां पयः // 18 //