________________ सङ्ग्रहश्लोकाः। . तृतीयान्तो भवेत्कर्ता, भावोक्तो कर्म नो भवेत् / अन्यार्थस्याद्यवचनं, क्रियायामात्मनेपदम् // 1 // यत्र कर्मैव कर्तृत्वं, याति कर्ता तु नोच्यते / बिक्यात्मनेपदं धातोरुक्तिः सा कर्मकर्तरि // 2 // सर्वस्मिन् कारकेऽनुक्ते, यथाई सूत्रभाषिताः / विभक्तयो द्वितीयाद्याः, उक्ते तु प्रथमा भवेत् // 3 // उक्तं कृत्तद्धित-त्यादि-समासैः कारकादिकम् / तद्विभक्त्यप्रयोगत्वात् , प्रथमा नाममात्रतः // 4 // शत्रानश्-शानाऽतृश-कसु-कान-क्तवतु-णक-तृचस्तृन् च / कर्तर्येते क्तोऽपि च, गत्यर्थाकर्मकादिभ्यः // 5 // शत्रानशौ वर्तमाने, स-स्यौ चैतौ भविष्यति / कसु-कानौ परोक्षावत् , साध्यौ काले परोक्षके // 6 // शोभते विनयं कुर्वन् , ददानो दानमास्तिकः / दिवं यास्यन् शिवं गास्यमानो वा संयमं श्रयेत् // 7 // तद्वयाप्ये यद्विभक्त्याचं, तदाऽऽनश्यपि तद्यथा। विनयः क्रियमाणोऽस्ति, दीयमाने धने बुधैः // 8 //