________________ कृदन्तप्रक्रिया। 181 . 140 सान्तेभ्य उ: 1 / चिकीर्षुः / तितीर्घः / 141. शमादिभ्यो घिनुण 2 / शमी / संपर्की / रागी। विवेकी। .142 यङ ऊकः। यज-जप-दंश-वदेभ्यो यङन्तेभ्य ऊकः स्याच्छीले / 143 लुक् / ऊके सति यङो लुक् स्यात् / यायजूकः 3 / दंदशकः / वावदूकः / 144 इण्-नश-जि-सर्तिभ्यः करटप् / इत्वरः 4 / नश्वरः। जित्वरः / मृत्वरः। भवेत् / स्थातुं शीलमस्य स स्थायुकः ‘आतो युक्'। एवं लाषुकः, भिक्षुकः, गामुकः, घातुकः इत्यादि। 1 इच्छायें, न तु शीले / कर्तुमिच्छतीति चिकीर्षुर्ग्रन्थम् , तरीतुमिच्छतीति तितीर्घः समुद्रम् , कारकसूत्रे क्तादिवनितत्वान्न षष्ठी। 2 शीलेऽर्थे / शाम्यतीत्येवंशीलः शमी, णित्त्वेन वृद्धेः प्राप्तापि 'मान्तस्य सेटो न वृद्धिः 0 सूत्राद् वृद्धेरभावः / पृच संपर्के, घित्त्वात् 'च-जोः क-गौ बिति' इति चस्य कत्वे संपर्की / रा रागे, विचिर् पृथग्भावे / 3 यज पूनादौ, यङि कृते सति यलुकि यायन्यते इति यायजूकः / यङ्लुकि 'वाऽन्यत्र ' अनेन विकल्पेन लुम् भवति, ऊके सति तु यो नित्यं लुग् भवतीत्यर्थः। दंश्यते इति दंदशूकः सर्पः। 4 एतीति इत्वरः पित्त्यात्तुक, स्त्रियां टित्त्वादीप, इत्वरी। नश्यती