________________ 18. सिद्धान्तरत्निका व्याकरणम् / 137 इष्णुः स्नुः क्नुः शीले 1 / [अलङ्करोति तच्छील:] अलङ्करिष्णुः। 138 जि-भुवोर्नेड्-गुणौ स्नौ / जिष्णुः 2 / भूष्णुः / क्षिप्नुः 3 / 139 षाकोकणः / शीलेऽर्थे षाक-उ-उकण्प्रत्ययाः स्युः 4 / वराकः / आशंसुः 5 / स्थायुकः 6 / भावुकः / - 1 अतः प्रभृति ग्रन्थसमाप्तिपर्यन्तं यानि सूत्राणि, तदर्थानि सर्वाणि कृदन्ते निहितानि पाणिनि-हेमचन्द्रादिवैयाकरणैः, चन्द्रिकाकृताऽपि तथैव कृतम्, न केनाप्येषामुणादिषु पाठः कृतः / अलंकृञ्-निराकृञ् प्रजन्-उत्पच्-उत्पत्उत्पद्-अस्-उन्मद्-रुच्--अपत्रप्-वृत्-वृध्--सह-चर्-भू-भ्राजधातुभ्यो न्यन्तधातुभ्यश्च पर इष्णुप्रत्ययः / निराकरिष्णुः शत्रु तेजःपालः / ग्ला-जि-स्था-भू-म्ला-क्षि-पच्-यज्-परिमृज् इत्येतेभ्यः स्नुः स्यात् / ग्लास्नुः। 2 क्विलात् / 'प! णोऽनन्ते' निष्णुः, भूष्णुः / 3 विष्-त्रस्-गृध्-क्षिप्-धृष् इत्येतेभ्यः क्नुः प्रत्ययः, कित्त्वाद् गुणाभावः। विषु व्याप्ती, वेवेष्टुं शीलमस्य स विष्णुः / क्षेप्तुं शीलमस्येति क्षिप्नुः इत्यादि / 4 जल्प-भिक्ष-कुट्ट-लुण्ट्-वृ इत्यादिभ्यः पाकः प्रत्ययः स्यात् / दृङ् संभक्तौ, वृञ् संवरणे, इत्येतयोर्वराकः, पित्त्वात् स्त्रियां 'व्रितः' सूत्रादीप् स्यात्, वराकी / एव नल्पाकः, जल्पाकी इत्यादि। 5 आशंसते इति आशंसुरिच्छुः / एवं भिक्षुः / 6 लष्-पत्-भिक्ष-पद्-स्था-भू-वृष्-हन्-कम्-गम्-शृ इत्यादिभ्य उकण