________________ कृदन्तप्रक्रिया। 122. ध्यणि कचित्कुत्वाभावः / पाच्यम् / वाच्यम् / 123 ऋदुपधात् क्यप् / कृत्यम् / वृत्यम् / 124 कृपि-नृत्योर्न 1 / कल्प्यम / चय॑म् / 125 मृजो वा / मृज्यं मायेम 2 / 126 इणादिभ्यश्च 3 / इत्यः / स्तुत्यः / 127 [ खन इत्वं क्यपि / खेयम् ] / 128 शासेरिः / शिष्यः। 129 कृवृषोर्वा क्यप् / कृत्यं कार्यम् / वृष्यं वर्ण्यम् / 130 पुष्य-सिध्यौ संज्ञायाम् / पुष्यः 4 / सिध्यः / 131 तव्यादयोऽहेऽर्थे विधौ शक्तौ च 5 / इष्टव्यः, दर्शनीयः / अध्येतव्यः, अध्ययनीयः, अध्येयः / वोढव्यः / 1 कृपेन / कल्प्यम्, इति पुस्तकान्तरे पाठः / 2 क्यपोऽभावे 'ऋ-हसान्ताद् ध्यण 'मृनेवृद्धिः. 'च-जोः क-गौ घिति' इति जस्य गत्वे मार्यम् / 3 इण्-स्तु-वृ-ह-भृ-शास-जुष-खनेभ्यः क्यप् / स्तूयते इति स्तुत्यः / डुभृञ् धारण-पोषणयोः, भ्रियते इति भृत्यो दासः। 4 पुष्य-सिध्याभिधानं नक्षत्रद्वयम् / 5 तव्य-अनीय-य-क्यप्ध्यणस्तव्यादयः पञ्च, ते सर्वेऽर्हादिषु यथाप्रयोगं भवन्ति / अहं योग्यम् / द्रष्टुं योग्यः समर्थो वेति द्रष्टव्यः ‘रारो झसे० ' इति स्त्वम् / एवं दर्शनीयः / क्यपि दृश्य इत्यादि / यप्रत्ययस्तु स्वरा