________________ 176 सिद्धान्तरलिका व्याकरणम् / . 116. तव्यानीयौ 1 / धातोरेतौ स्तो भाव-कार्ययोः / आसितव्यम् / करणीयम् / ..... 117 वसेस्तव्यः कर्तरि णिच / वसतीति वास्तव्यः / 118 स्वरायः / चेयम् / जेयम् / तव्यानीयावपि / चेतन्यः। चयनीयः / - 119 ई चातः / आत ईः स्याये / देयम् / [धेयम् ] / गेयम् / पेयम् / हेयम् / [ स्थेवम् ] / .. 120 पु-शकात् 2 / पवर्गान्ताच्छकादेश्च यः स्यात् / शप्यम् / शक्यम् / सह्यम् / . . . . 121 ऋ-हसान्ताद् ध्यण् / ऋ-हसान्ताद् 3 घ्यण भाव-कार्ययोः / कार्यम् / हार्यम् / वाक्यम् / घात्यम् / 1 एतत्प्रत्ययद्वयान्ताः शब्दा वाच्यलिङ्गा भवन्ति, यथाश्रीविजयधर्मसूरोयप्रमाणपरिभाषाऽऽख्यो ग्रन्थः पठितव्यः पठनीयो वा, प्रबुद्धरौहिणेयनाटकं पठितव्यं पठनीयं वा, तिलकमञ्जरी परिशीलितव्या परिशीलनीया वा / 2 शक-सह-गद-मद-चर-यमतक-शस-चत-यत-पत-जन-हन-शल-रुच इत्येते शकादयः / शप्यमिति पवर्गान्तनिर्देशः / 3 ऋवर्णान्ताद् हसान्ताच्च, इति प्रतिद्वये पाठः / हसान्तेन व्यञ्जनान्तमात्रगृहीतिः। उच्यते इति वाक्यं 'च-जोः क-गौ विति' इति चस्य कत्वम् / हन् हिंसा-गत्योः, 'हनो घत्' घात्यम्।