________________ कृदन्तप्रकरणम् / 112 पिद्भिदामह। पितो धातोमिदादेश्च स्त्रियामङ् मावे। पचा 1 / मृना। भिदा / छिदा / क्षिपा / गुहा / 113 गुरोईसात् 2 / स्त्रियामङ् / ईहा। उहा / [कुण्डा)। 114 प्रत्ययान्ताच 3 / चिकीर्षा / लोलूया / कण्डूया। पुत्रकाम्या। 115 ज्यन्तेभ्यो घटादिभ्यश्च 4 / स्त्रियां युः / कारणा। घटना / वन्दना / अर्थना / __ 1 डुपचष् पाके, पच्यते इति पचा / भिद्यते सा भिदा मेदः / एवं मेधा-कृपा-बाधा-क्षादीनामूद्यम् / जरा-इच्छा-एषणादयस्तु निपातनीयाः / 2 हसान्तात्, इति क-पुस्तके / ख-पुस्तकेऽस्य वृत्तौ-गुरुमतो हसान्तात् , इति विशेषः / ईह चेष्टायाम्, ईह्यते इति ईहा / श्रीचन्द्रकीर्तिसूरयस्तु ईह वाञ्छायामिति प्रोचुः। कुडि दाहे, एवं ईक्षा-श्रद्धा-लेखादयः / 3 इच्छाऽतिशयाद्यर्थेषु ये स-यादिप्रत्ययास्तदन्ताद्धातोरपि स्त्रियामङ्ग स्यादिति तात्पर्यम् / डुकृञ् करणे, सान्तादडि चिकीर्षा / लुञ् छेदने, यङन्ताद् लोलूयते इति लोलूया, अङि परे ‘यतः' इत्यलोपः / कण्डू गात्रविघर्षणे / पुत्रकाम्यते इति पुत्रकाम्या / 4 आदिशब्दाद आस-अर्थश्रन्थ-वन्द-विद-इष-ग्रन्थानां ग्रहणम् / घट इति स्थाने बट्ट इति लिखितं पण्डितरामाश्रमेण, तदपि नानुचितम् , मट्टचट्टघट्टना इति रत्नप्रभसूरिकृतायां रत्नाकरावतारिकायां प्रयोगसत्त्वात् / कार्यत इति कारणा 'युवोरनाको' /