SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ कृरन्तप्रकरणम् / 105 युट् भावे / ज्ञानम् 1 / करणम् / 106 करणाधारयोश्च / पचनोऽग्निः / पचनी 2 स्थाली। 107 सियां यजा भावे 3 / यजादेर्धातोः स्त्रियां मावे क्यप् / इन्या / शय्या / हत्या। स्वप्नः, रक्ष्णः, व्याधिः, अन्तद्धिः, समाधिः इत्यादयः / आधिः मनःपीडा / वामाः कुलस्वाधयः, इति कालिदासः, वामा इति कुलटाः स्त्रियः / पाथः जलं धीयते स्थाप्यतेऽस्मिन्निति पाथोधिः समुद्रः, एवं जलधिः, नीरधिः, पयोधिः,अम्भोधिः, अब्धिः इत्यादि। 1 “युवोरनाको / इति अनः / ज्ञायन्ते जीवाजीवादयो हेयादयो वा पदार्था येन तद् ज्ञानं ज्ञप्तिः / एवं भवनं, अदनं, हवनं, देवनं, सवनं, रोधनं, नोदनं, पवन, कीर्तनमित्यादि / सर्वधातुभ्योऽयं प्रत्ययः स्यात्, एतत्प्रत्ययान्तं च पदं मपुंसकलिङ्गे स्यात् , न च पराधीनभूतं भवेत् / 2 पच्यन्ते ओदनादीनि यस्यामिति पचनी, टित्त्वात् 'ट्वितः' इतीप् / 3 यज-व्रज-समर-निषद निपत-मन-नम-विद-षुञ्-शी-भृञ्इण-कृ-इषु-परिसृप-परिचर-अटाट्य-आस-चर-जागृ-हन इत्येते यजादयः / यजादिष्वकार उच्चारणार्थत्वादित्संज्ञक एवं यथासम्भवमन्यत्रापि ज्ञेयम् / इज्यते यजनं वेति इज्या। शी स्वप्ने, 'शीङोऽयङ् ये क्ङिति' शय्यते शेरतेऽस्यामिति वा शय्या / हन्यते या सा " हन्तेस्तः " इति हनो नस्य तकारे हत्या गङ्गा
SR No.004480
Book TitleSiddhantratnikakhyam Vyakaranam
Original Sutra AuthorN/A
AuthorJayantvijay, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages278
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy